This page has not been fully proofread.

सर्गः ३]] रसिकप्रिया-रसमञ्जर्याख्य टीकाद्वयोपेतम्
 
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रीडानिर्जित विश्व मूर्च्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेइत्कटाक्षाशुग-
श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुते ॥ १२ ॥
 
ध्यतेऽसावपह्नुतिः' इत्यपह्नुतिरलंकारः । विप्रलम्भशृङ्गारो रसः ॥ ११ ॥ इदानीं स्मर-
मुपालभते - पाणाविति । हे क्रीडा निर्जितविश्व काम, पाणौ अमुं चूतसायकं मा
कुरु । चापमपि मा रोपय मा सज्जं कुरु । यतः क्रीडयैव निर्जित विश्वस्य केयं सामग्री
नाम । अथ चेत्सामग्री तर्हि कस्योपरीत्याह । मूर्च्छितजनाघातेन किं पौरुषं कोऽयं
पराक्रमः । अथवा कुत्सितं पौरुषं किंपौरुषम् । तर्हि किं क्रियतामित्याह । यदर्थं मां
प्रहिणोषि तस्या एव मृगीदृशो मनोऽद्यापि मनागपि न संधुक्षते । अपि तु संधुक्षतां
नाम । किं विशिष्टं मनः । प्रेसत्कटाक्षानलज्वालाजर्जरितम् । प्रेङ्खन्तो वल्गन्तो ये
कटाक्षा अर्थात्सपत्नीनां त एव अनलोऽग्निस्तस्य ज्वालास्ताभिर्जर्जरितम् । अथवा हे
मनसिज, तस्या एव मृगीदृशः प्रेङ्खत्कटाक्षानलज्वालाजर्जरितं मनः । अर्थान्ममैवा-
द्यापि न दीप्यते । अतो मृतमारणं कथं युक्तम् । शार्दूलविक्रीडितं छन्दः । आक्षे-
सर्पराजो वासुकिः । इयं कण्ठे कुवलयदलानां नीलोत्पलपत्राणां श्रेणिः पङ्क्तिः शैत्याद्धृता
न तु सा गरलद्युतिर्विषकान्तिः । इदं सर्वाङ्गे तापशान्त्यर्थं धृतं मलयजरसश्चन्द नधूलिर्न
तु भस्म विभूति: । अङ्गे लिप्तः प्रशिथिलचन्दनोऽपि विरहतापवशाहूलीभूत इति रजःपदेन
सूचितम् । तथा च बिसलतायां शैत्यदीर्घत्वादिदर्शनाद्वा वासुकिभ्रमात्, नीलोत्पलदलपकौ
श्यामत्वादिदर्शनादुरगभ्रमात्, चन्दनरजसि भस्मभ्रमाच्च मयि महादेवभ्रमस्तव युक्तो नेति
भावः । अयं च भ्रान्तिमानलंकारः 'सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्' इति तल्लक्ष-
णम् । 'वितर्के किं किमूत च' इत्यमरः । 'किं संबुद्धावुपोक्तौ ? च' इति विश्वः ॥ ११ ॥
कुसुमायुधत्वेन प्रसिद्धो यः कामः स इमानेव चूतमञ्जरीरूपान्बाणान्धनुष्यारोप्य मां ताड-
यिष्यतीति शङ्कया पुनरपि दैन्यं करोति - पाणाविति । हे मनसिज मदन, अमुं पुरः-
स्थितं चूतसायकमात्रपुष्परूपं बाणं पाणौ हस्ते मा कुरु । चापं धनुर्मा रोपय मौवींयुक्तं
मा कुरु । यद्वा चूतसायकं हस्ते मा कुरु । हस्ते चेत्करोषि तदानुं सायकं चापे मारो-
पय । मा संघेहीत्यर्थः । अत्र मनसिजपदेन मन्मनसा जातस्य ते मत्संतापकारित्वमनु-
चितमिति ध्वनितम् । हे क्रीडानिर्जितविश्व क्रीडया लीलया निर्जितं विश्वं जगधेन तादृश,
मूच्छितस्य मूर्च्छा प्राप्तस्य मादृशजनस्याघातेन प्रहारेण तव किं पौरुषम् । अपि तु न
किमपीत्यर्थः । यद्वा क्षेपे किंशब्दः । मूच्छितजनाघातेन तव किं पौरुषम् । कुत्सितं पौरुष-
मित्यर्थः । मूच्छितत्वे हेतुमाह - तस्या एवेति । तस्या एव मृगीदृशो हरिणीदृशः
प्रेशन्तः प्रसर्पन्तो ये कटाक्षास्त एवाशुगा बाणास्तेषां श्रेणिभिः पङ्गिभिर्जर्जरितं खण्डितं
मनो मनागपि न संधुक्षते न स्वस्थं भवति । तथा च तत्कटाक्षरूपबाणैस्त्वयाहं मूच्छितः
कृतः संप्रति मयि चूतमञ्जरी रूपसायकप्रहारं मा कुरु । मृतमारणं माचरेत
भावः । येन लीलयैव विश्वमपि जितं तस्य ते मूच्छितजनेषु प्रहारो यशोहानिकर.
१ 'अनल' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri