This page has been fully proofread once and needs a second look.

[ सर्ग: ३
 
वर्णितं जयदेवकेन हरेरिदं प्रवणेन
 
[^१] ।
किन्दुवि[^२]बिल्वसमुद्रसंभवरोहिणीरमणेन ॥ हरिहरिं० ॥ १० ॥

 
हृदि बिसलताहारो नायं भुजङ्गमनायकः
 

कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।

मलयजरजो नेदं भस्म प्रियारहिते मयि
 

प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ ११ ॥
 
गीतगोविन्द काव्यम्
 

 
दुनोमि । इतस्ततस्तामित्यादौ धीरललितो नायकः । परस्परानुरागजनितो विप्रलम्भ-

शृङ्गारः ॥ ९ ॥ <pratika>वर्णितमिति । </pratika>इदं पूर्वोक्तं जयदेवेन वर्णितम् । किंभूतेन ।

हरेः प्रवणेन हरिपरायणेन । पुनः किंभूतेन । ति ( कि ) न्दुबिल्वं तच्छासनं निवासो

वा ग्रामः समुद्र इव तत्संभवरोहिणीरमणेनेव चन्द्रेणेव ॥ १० ॥ इदानीं स्मरशरा-

तिजर्जरचेता भ्रान्तः सन् काममपि भ्रान्तं विदन्नाह -- <pratika>हृदीति । </pratika>हे अनङ्ग, हर-

भ्रान्त्या प्रियारहिते मयि न प्रहर प्रहारं मा कार्षीः । एभिश्चिह्नैर्हरोऽयमिति चेत्त-

दप्यन्यथयति । हृदये भुजंगमनायको न अपि तु बिसलताहारः । बिसलताहार

इति रूपकालंकारः । शुभ्रत्वात् हृद्यवस्थानाच्च मृणाले वासुकिभ्रमः । अपि च ।

कण्ठे इयं कुवलयदलश्रेणी । न प्रसिद्धा गरलद्युतिः । इयमपि विरहातुरस्य मम

गरलद्युतिरिव विद्यते । परं यायद्भ्रान्त्या मयि प्रहरसि सा प्रसिद्धा ईश्वरसंबन्धिनी न ।

इदं मलयजरजोऽङ्गतापाच्छुकं चन्दनं विद्यते न भस्म । किमु इति वितर्फेके । सत्यम्

क्रुधा कोपेन धावसि । लोकोक्तिः । हरिणीवृत्तम् । '"प्रकृतं यन्निषिध्यान्यत्सा-
'

 
"
अतस्मिंस्तदिति भ्रान्तिरुन्मादादेव जायते'" इति । पुनः किंचित्संजात विवेकः कथयति

हे सुन्दरि, मम दर्शनं देहि । मन्मथेन कामेनाहं दुनोमि तप्तो भवामि ॥ ९ ॥

<pratika>
वर्णितमिति ।</pratika> जयदेवकेन हरेश्चरितं वर्णितम् । कीदृशेन । प्रणतेन । अर्थाद्धरिमित्यर्थः ।

कीदृशेन । किन्दुबिल्वो जयदेवकुलवृत्तिग्रामः स एव महत्त्वात्समुद्र इव तत्र संभवो यस्य

तादृशेन रोहिणीरमणेन पूर्णचन्द्रेण । तस्योन्नतिर्था क्रियते तथा तत्कुलस्योन्नतिर्जयदेवेन

कृतेति चन्द्रसादृश्यम् । '"ग्लौरिन्दुरेणतिलको हरिरोहिणीशौ'" इति हारावली ॥ १० ॥

इदानीं काम एव मे दुःखं प्रयच्छतीति तमेवोपालम्भनेनाह --<pratika>हृदीति । </pratika>हेऽनङ्ग कन्दर्प,

मयि न प्रहर प्रहारं मा कुरु
किम्विति वितर्के । मयि हरभ्रान्त्या महादेवभ्रमात्नुक्रुधा

क्रोधेन त्वं धावसि इति किमु तर्कयामि । यद्वा उ इति संबोधने । हेऽनङ्ग, हरभ्रान्त्या

मयि किमिति धावसि । कीदृशे मयि । प्रियारहिते । तथा च तद्विश्लेषादेवा
हं
संतप्तस्त्वं मृतकरूपस्य मम मारणं किमिति करोषीति भावः । यद्वा हरः सर्वदा-

प्रियायुक्तोऽहं त्वधुना प्रियाविरहित इति मयि हरभ्रमो न युक्त इति भावः । हरेण

त्वच्छरीरं दग्धमतः कामस्य महद्वैरसूचनायानङ्गपदेन संबोधने भ्रमबीजं निरस्यति । अयं

बिसलताहारो मृणाललताहारस्तद्विरहजन्यसंतापशान्त्यर्थं धृतः न तु भुजंगमनायकः ।
 

 

 
[^
'.] "प्रणतेन'" इति पाठः । [^ 'ति.] "तिन्दुबि''ल्व" "केव'न्दुबिल्व" इति पाठौ ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri