2022-10-18 04:14:02 by ambuda-bot
This page has not been fully proofread.
[ सर्ग: ३
वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
किन्दुविल्वसमुद्रसंभवरोहिणीरमणेन ॥ हरिहरिं० ॥ १० ॥
हृदि बिसलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ ११ ॥
गीतगोविन्द काव्यम्
दुनोमि । इतस्ततस्तामित्यादौ धीरललितो नायकः । परस्परानुरागजनितो विप्रलम्भ-
शृङ्गारः ॥ ९ ॥ वर्णितमिति । इदं पूर्वोक्तं जयदेवेन वर्णितम् । किंभूतेन ।
हरेः प्रवणेन हरिपरायणेन । पुनः किंभूतेन । ति ( कि ) दुबिल्वं तच्छासनं निवासो
वा ग्रामः समुद्र इव तत्संभवरोहिणीरमणेनेव चन्द्रेणेव ॥ १० ॥ इदानीं स्मरशरा-
इतिजर्जरचेता भ्रान्तः सन् काममपि भ्रान्तं विना — हृदीति । हे अनङ्ग, हर-
भ्रान्त्या प्रियारहिते मयि न प्रहर प्रहारं मा कार्षीः । एभिश्चिह्नैर्हरोऽयमिति चेत्त-
दप्यन्यथयति । हृदये भुजंगमनायको न अपि तु बिसलताहारः । बिसलताहार
इति रूपकालंकारः । शुभ्रत्वात् हृद्यवस्थानाच्च मृणाले वासुकिभ्रमः । अपि च ।
कण्ठे इयं कुवलयदलश्रेणी । न प्रसिद्धा गरलद्युतिः । इयमपि विरहातुरस्य मम
गरलद्युतिरिव विद्यते । परं यान्त्या मयि प्रहरसि सा प्रसिद्धा ईश्वरसंबन्धिनी न ।
इदं मलयजरजोऽङ्गतापाच्छुकं चन्दनं विद्यते न भस्म । किमु इति वितर्फे । सत्यम्
क्रुधा कोपेन धावसि । लोकोक्तिः । हरिणीवृत्तम् । 'प्रकृतं यन्निषिध्यान्यत्सा-
'अतस्मिंस्तदिति भ्रान्तिरुन्मादादेव जायते' इति । पुनः किंचित्संजात विवेकः कथयति
हे सुन्दरि, मम दर्शनं देहि । मन्मथेन कामेनाहं दुनोमि तप्तो भवामि ॥ ९ ॥
वर्णितमिति । जयदेवकेन हरेश्चरितं वर्णितम् । कीदृशेन । प्रणतेन । अर्थाद्धरिमित्यर्थः ।
कीदृशेन । किदुबिल्वो जयदेवकुलवृत्तिग्रामः स एव महत्त्वात्समुद्र इव तत्र संभवो यस्य
तादृशेन रोहिणीरमणेन पूर्णचन्द्रेण । तस्योन्नतिर्थथा क्रियते तथा तत्कुलस्योन्नतिर्जयदेवेन
कृतेति चन्द्रसादृश्यम् । 'ग्लौरिन्दुरेणतिलको हरिरोहिणीशौ' इति हारावली ॥ १० ॥
इदानीं काम एव मे दुःखं प्रयच्छतीति तमेवोपालम्भनेनाह — हृदीति । हेऽनङ्ग कन्दर्प,
मयि न प्रहर प्रहारं मा कुरु
किम्विति वितर्के । मयि हरभ्रान्त्या महादेवभ्रमात्नुधा
क्रोधेन त्वं धावसि इति किमु तर्कयामि । यद्वा उ इति संबोधने । हेऽनङ्ग, हरभ्रान्त्या
मयि किमिति धावसि । कीदृशे मयि । प्रियारहिते । तथा च तद्विश्लेषादेवाई
संतप्तस्त्वं मृतकरूपस्य मम मारणं किमिति करोषीति भावः । यद्वा हरः सर्वदा-
प्रियायुक्तोऽहं त्वधुना प्रियाविरहित इति मयि हरभ्रमो न युक्त इति भावः । हरेण
त्वच्छरीरं दग्धमतः कामस्य महद्वैरसूचनायानङ्गपदेन संबोधने भ्रमबीजं निरस्यति । अयं
बिसलताहारो मृणाललताहारस्तद्विरहजन्यसंतापशान्त्यर्थं धृतः न तु भुजंगमनायकः ।
।
१ 'प्रणतेन' इति पाठः । २ 'तिदुबि''केव' इति पाठौ ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri