This page has been fully proofread once and needs a second look.


 
अथ तत्रैव विप्रोऽन्यो देवशर्मेति विश्रुतः ।

अनपत्यो बभूवासौ जगन्नाथमुपागतः ॥

 
नमस्कृत्य हरिं मूर्ध्ना स्वीचकार कृताञ्जलिः ।

यदि मे संततिर्नाथ त्वत्प्रसादाद्भविष्यति ॥

 
अपत्यं प्रथमं तुभ्यमर्पयिष्याम्यसंशयम् ।

प्रतिश्रुत्य मनस्येवं स यातो निजमन्दिरम् ॥

 
तत्र कालेन कियता कन्यैका प्रथमाजनि ।

ततः पुत्रानलभत साधुवृत्तान्मनोहरान् ॥

 
ततः स मनसा स्मृत्वा सपत्नीको द्विजोत्तमः ।

कन्यां गृहीत्वा हर्षेण जगन्नाथमुपागतः ॥

 
नमस्कृत्य जगन्नाथं देवशर्माब्रवीद्वचः ।

देव देव जगन्नाथ प्रसादः फलितो मम ॥

 
प्रथमा तनया जाता पुत्रास्तु तदनन्तरम् ।

अतः प्रतिश्रुतां कन्यां ददामि प्रतिगृह्यताम् ॥

 
इत्युक्त्वा तां करेणासौ गृहीत्वा तां प्रदर्श्य च ।

पूजकेभ्योऽथ वृत्तान्तमादितो व्याजहार सः ॥

 
ततो बहिः समागत्य सोऽवतस्थे क्वचिद्द्विजः ।

रात्रौ तस्य च विप्रस्य पूजकस्य जगत्प्रभुः ॥

 
स्वप्ने तं कथयामास जगन्नाथो द्रुतं वचः ।

देवशर्मन्प्रसन्नोऽस्मि स्वीकृता ते सुता मया ॥

 
परंतु जयदेवाय दीयतां मत्प्रियो ह्यसौ ।

अहमेव स विज्ञेयो नात्र कार्या विचारणा ॥

 
पूजकोऽप्येवमेवाथ स्वप्नं दृष्ट्वा प्रबोधितः ।

देवशर्माणमागत्य स्वप्नं प्रोवाच हर्षितः ॥

 
श्रुत्वैवं देवशर्मापि स्वप्नं सत्यममन्यत ।

पूजकं तं नमस्कृत्य गृहीत्वा तनयां निजाम् ॥

 
जगाम जयदेवस्य संनिधौ हृष्टमानसः ।

तं तु पर्णकुटीमध्ये प्ग्रामाद्हिरवैक्षत ॥

 
दरिद्रं निरपेक्षं च शास्त्रं पश्यन्तमादरात् ।

मनसा तु जगन्नाथं ध्यायन्तं मुदिताननम् ॥

 
प्रणम्य जयदेवं तं देवशर्माब्रवीद्वचः ।

इयं मे तनया ब्रह्मजगन्नाथाज्ञया मया ॥

 
नाम्ना पद्मावती तुभ्यं दीयतेऽनुगृहाण ताम् ।

इत्युक्तो जयदेवस्तमुवाच मधुरं वचः ॥

 
अहं न कन्यादानस्य पात्रं दीनोऽनिकेतनः ।

ममापि न जिघृक्षास्ति किमिदं भाषसे वृथा ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri