This page has been fully proofread once and needs a second look.

सर्ग: ३ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ५७
 
तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
 

तन्न वेद्मि कुतो गतासि नतेन तेऽनुनयामि ॥ हरिहरि० ॥ ७ ॥

 
दृश्यसे पुरतो गतागतमेव मे विद्धासि ।
 

किं पुरेव ससंभ्रमं परिरम्भणं न ददासि ॥ हरिहरि० ॥ ८ ॥

 
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
 

देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ हरिहरि० ॥ ९ ॥
 

 
रामि ॥ ६ ॥ <pratika>तन्वीति । </pratika>हे तन्वि, तव <error>हृदयं </error><fix>हृदयम्</fix>असूयया खिन्नं खेदयुक्तं भविष्य-

तीत्याकलयामि । तत्तस्मादहं कुतो गतासीति न वेद्मि । अपि तु असूयात एव

गतासीति वेद्मि । अतो हेतोर्दर्शनाभावात् । ते तव संबन्धिना नतेन नमस्कारेणा-

नुनयामि । अथवा तव <error>हृदयं </error><fix>हृदयम्</fix>असूयया खिन्नम् । तेन कारणेन ते तव हृदयं नानु -
नयामि । '

नयामि । "
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः'" इति न्यायापातादिति भावः ।

अथवा तत्कुतो न वेद्मि । अपि तु वेद्मि । अथवा त्वं गतासि यातासि । तव

हृदयं नते नमस्कृतौ न अनुनयामि ॥ ७ ॥ <pratika>दृश्यस इति । </pratika>हे तन्वि, मे पुरतो

गतागतमेव विदधासि यातायातमेव करोषीति दृश्यते । अपरं पुरेव ससंभ्रमं यथा

स्यात्तथा परिरम्भणं न ददासि । विरहिणो हि चित्तानुषङ्गात्सर्वतस्तामेव पश्यन्ति ।

तथा चोक्तम् – '-- "प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि

दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा

सा सा सा जगति सकले कोऽयमद्वैतवादः'" ॥ ८ ॥ <pratika>क्षम्यतामिति । </pratika>हे

तन्वि, भवतु यत्किकिंचिन्मया अपराद्धं क्षम्यतां तत् । ईदृशमपरमप्रियं तव

कदापि न करिष्यामि । हे सुन्दरि, मम दर्शनं देहि । त्वद्विनाहं मन्मथेन
 

 
रमयामि किं वा वने तामनुसरामि । वृथा विलपामीत्यर्थः ॥ ६ ॥ <pratika>तन्वीति । </pratika>हे तन्वि,
तव

तव <error>
हृदयं </error><fix>हृदयम्</fix>असूयया मयि दोषाविष्कारेण खिन्नं खेदयुक्तमाकलयामि पश्यामि । इयं चोद्वे-

गावस्था । तदुक्तं शृङ्गारतिलके–' -- "यस्मिन्रम्यमरम्यं च स्यात्प्रकर्षाय किंचन । विद्वेषः प्राणि-

तव्येऽपि स उद्वेगः स्मृतो यथा ॥'" इति । तन्न वेनीद्मीति । कुतो गतासि तदहं न वेद्मि । ते

तव नतेन प्रणत्यानुनयामि त्वामित्यर्थः । क्वचित्तु नुतेनेति पाठस्तदा ते तव नुतेन स्तुत्या-

नुनयामि त्वामित्यर्थः । यद्वा । नु इति वितकेंर्के । ते मिलनेव्ययम् ( ? )। तथा च यं मार्
गं
लक्षीकृत्य गतासि तं मार्गं लक्षीकृत्य गत्वा तेऽनुनयामि तवानुनयं करोमि । ते इति संब-

न्धमात्रविवक्षायां षष्ठी । अनेन विलापावस्था कथिता । तदुक्तं शृङ्गारतिलके–' -- "बम्भ्रमीति

मनो यस्मिन्नत्यौत्सुक्यायितं ततः । वाचः प्रियाश्रया एव स प्रलापः स्मृतो यथा ॥" इति

॥ ७ ॥ इदानीं भावनया प्रत्यक्षीकृतां प्राह - <pratika>दृश्यस इति ।</pratika> हे सुन्दरि, पुरेव पूर्व मित्र
मिव
ससंभ्रमं सादरं परिरम्भणमालिङ्गनं किमिति न ददासि । पुरतोऽग्रे गतागतं याता-

यातं विदधासि ॥ ८ ॥ <pratika>क्षम्यतामिति ।</pratika> हे सुन्दरि, क्षम्यतां ममापराधं क्षमस्व । कदापि

तवेदृशं विप्रियं न करिष्यामि । इयं चोन्मादावस्था । तदुक्तं रसार्णवसुधाकरे -
 
CC
-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri