This page has not been fully proofread.

सर्ग: ३ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ५७
 
तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
 
तन्न वेद्मि कुतो गतासि नतेन तेऽनुनयामि ॥ हरिहरि० ॥ ७ ॥
दृश्यसे पुरतो गतागतमेव मे विद्धासि ।
 
किं पुरेव ससंभ्रमं परिरम्भणं न ददासि ॥ हरिहरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
 
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ हरिहरि० ॥ ९ ॥
 
रामि ॥ ६ ॥ तन्वीति । हे तन्वि, तव हृदयं असूयया खिन्नं खेदयुक्तं भविष्य-
तीत्याकलयामि । तत्तस्मादहं कुतो गतासीति न वेद्मि । अपि तु असूयात एव
गतासीति वेद्मि । अतो हेतोदर्शनाभावात् । ते तव संबन्धिना नतेन नमस्कारेणा-
नुनयामि । अथवा तव हृदयं असूयया खिन्नम् । तेन कारणेन ते तव हृदयं नानु -
नयामि । 'प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः' इति न्यायापातादिति भावः ।
अथवा तत्कुतो न वेद्मि । अपि तु वेद्मि । अथवा त्वं गतासि यातासि । तव
हृदयं नते नमस्कृतौ न अनुनयामि ॥ ७ ॥ दृश्यस इति । हे तन्वि, मे पुरतो
गतागतमेव विदधासि यातायातमेव करोषीति दृश्यते । अपरं पुरेव ससंभ्रमं यथा
स्यात्तथा परिरम्भणं न ददासि । विरहिणो हि चित्तानुषङ्गात्सर्वतस्तामेव पश्यन्ति ।
तथा क्तम् – 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि
दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा
सा सा सा जगति सकले कोऽयमद्वैतवादः' ॥ ८ ॥ क्षम्यतामिति । हे
तन्वि, भवतु यत्किचिन्मया अपराद्धं क्षम्यतां तत् । ईदृशमपरमप्रियं तव
कदापि न करिष्यामि । हे सुन्दरि, मम दर्शनं देहि । वद्विनाहं मन्मथेन
 
रमयामि किं वा वने तामनुसरामि । वृथा विलपामीत्यर्थः ॥ ६ ॥ तन्वीति । हे तन्वि,
तव हृदयं असूयया मयि दोषाविष्कारेण खिन्नं खेदयुक्तमाकलयामि पश्यामि । इयं चोद्वे-
गावस्था । तदुक्तं शृङ्गारतिलके–'यस्मिन्रम्यमरम्यं च स्यात्प्रकर्षाय किंचन । विद्वेषः प्राणि-
तव्येऽपि स उद्वेगः स्मृतो यथा ॥' इति । तन्न वेनीति । कुतो गतासि तदहं न वेद्मि । ते
तव नतेन प्रणत्यानुनयामि त्वामित्यर्थः । क्वचित्तु नुतेनेति पाठस्तदा ते तव नुतेन स्तुत्या-
नुनयामि त्वामित्यर्थः । यद्वा । नु इति वितकें । ते मिलनेव्ययम् ( ? )। तथा च यं मार्ग
लक्षीकृत्य गतासि तं मार्गं लक्षीकृत्य गत्वा तेऽनुनयामि तवानुनयं करोमि । ते इति संब-
न्धमात्रविवक्षायां षष्ठी । अनेन विलापावस्था कथिता । तदुक्तं शृङ्गारतिलके–'बम्भ्रमीति
मनो यस्मिन्नत्यौत्सुक्यायितं ततः । वाचः प्रियाश्रया एव स प्रलापः स्मृतो यथा ॥" इति
॥ ७ ॥ इदानीं भावनया प्रत्यक्षीकृतां प्राह - दृश्यस इति । हे सुन्दरि, पुरेव पूर्व मित्र
ससंभ्रमं सादरं परिरम्भणमालिङ्गनं किमिति न ददासि । पुरतोऽग्रे गतागतं याता-
यातं विदधासि ॥ ८ ॥ क्षम्यतामिति । हे सुन्दरि, क्षम्यतां ममापराधं क्षमस्व । कदापि
तवेदृशं विप्रियं न करिष्यामि । इयं चोन्मादावस्था । तदुक्तं रसार्णवसुधाकरे -
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri