This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्गः ३
 
चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
 

शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ हरिहरि० ॥ ५ ॥

 
तामहं हृदि संगतामनिशं भृशं रमयामि ।
 

किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ हरिहरि० ॥ ६ ॥
 

 
कृत्वा जीवितं निन्दति । जीवितफलं किम् । सुखमपि नान्यदिति वाक्यशेषः ।

किंविशिष्टा सा । विरहेण उपलक्षिता । अथवा मम विरहेणाकाक्रान्ता सा किं वदिष्य -

तीत्यादि । ममापि तां विना किं धनादिनेति योजनीयम् ॥ ४ ॥ <pratika>चिन्तयामीति ।
</pratika>
अहं तदाननं चिन्तयामि । किंभूतमाननम् । कोपभरेणार्थान्मयि कुटिलभ्रु । कुटिले

कुञ्चिते भ्रुवौ यत्र । किमिव शोणपद्ममिव उपरिभ्रमता भ्रमरेणाकुलम् । अत्र

कोपारक्तमुखं पद्मेनोपमीयते । भ्रमरेण कुटिले कोपावेशपरिस्फुरमाणे भ्रुवाविति ।

अत्र वाक्यार्थोपमालंकारः । तथा च – '-- "तदाननमधीराक्षमाविद्धं शतदीधिति

भ्रमद्भुभृङ्गमिवालक्ष्य केसरं भाति पङ्कजम् ॥'" इति ॥ ५ ॥ <pratika>तामहमिति
।</pratika>
अहं अनिशमनवरतं हृदि संगतां हृदये मिलितां तां भृशमत्यर्थं रमयामि

इत्युक्त्वा पुनः प्रबुद्ध्याह । इष्टशून्यप्रदेशे वृथा किं विलपामि तां वनेऽनुस
 
-
 
तया विना मम धनेन किम् । न किंचित्प्रयोजनमित्यर्थः । ननु धनं विना परिजनसंग्रहः

कथं स्यादित्यत आह । तया विना मम जनेनाश्रितेन परिजनेन किम् । न किमपि

प्रयोजनम् । ननु परिजनं विना गोधनरक्षा कथं भविष्यतीत्यत आह । तया विना मम

गोधनेन किम्
न किमपि प्रयोजनम् । ननु धनं विना परिजनादृते च गृहरक्षापि न

स्यादित्यत आह । तया विना मम गृहेणापि किम् । अपि तु प्रयोजनं नास्तीत्यर्थः । ननु

गृहं विना सांसारिका भोगाः कथं सेत्स्यन्तीत्यत आह । तया बिविना मम सुखेनापि किम् ।

स्रक्चन्दनवनितादिजन्येनापि सुखेन किं प्रयोजनमित्यर्थः । इयं च स्मृत्याख्या तृतीया-

वस्था । तदुक्तं रसार्णवसुधाकरे – '-- "अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सातत्येन

परामर्शो मानसः स्यादनुस्मृतिः ॥ अत्रानुभावविश्वासाद्धीनं कृत्वा विहस्तता । राज्यास
-
नादिविद्वेषश्चेत्याद्याः स्मरकल्पिताः ॥'" इति ॥ ४ ॥ <pratika>चिन्तयामीति । </pratika>अहं तदाननं

चिन्तयामि स्मरामि । कीदृशम् । रोषभरेण कोपातिशयेन कुटिलभ्रु कुटिला वका अक्रा भ्रूर्यत्र

तादृशम् । किमिव । उपरि भ्रमता भ्रमरेणाकुलं व्याप्तं शोणपद्ममिव । अत्र रोषारुणे मुखे
अनेन

शोणपद्मसादृश्यं बोध्यम् । वारंवारं वक्रीभवन्त्योर्भ्रुवोश्च भ्रमद्भ्रमरोपमा बोध्या
। अनेन
गुणकीर्तनाख्या चतुर्थांथावस्था । तदुक्तम् – '-- "अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षणैः । न तस्य

सदृशः कश्चिदित्यादि गुणकीर्तनम् ॥'" इति । '"शोण:णः कोकनदच्छवि:'विः" इत्यमरः ॥ ५ ॥

<pratika>
तामहमिति । </pratika>तामनुसरामि तस्या अनुसरणं करोमि । इह वृथा किं विलपामि

किमिति वृथा विलापं करोमि । हृदि संगतां हृदये संनिहितामनिशं निरन्तरं भृशमति-

शयेन तां रमयामि क्रीडयामि । यद्वा किंशब्दः प्रश्ने । अहं तां हृदि संगतामनिशं
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
1