2022-10-18 04:14:01 by ambuda-bot
This page has not been fully proofread.
गीतगोविन्दकाव्यम्
[ सर्गः ३
चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ हरिहरि० ॥ ५ ॥
तामहं हृदि संगतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ हरिहरि० ॥ ६ ॥
कृत्वा जीवितं निन्दति । जीवितफलं किम् । सुखमपि नान्यदिति वाक्यशेषः ।
किंविशिष्टा सा । विरहेण उपलक्षिता । अथवा मम विरहेणाकान्ता सा किं वदिष्य -
तीत्यादि । ममापि तां विना किं धनादिनेति योजनीयम् ॥ ४ ॥ चिन्तयामीति ।
अहं तदाननं चिन्तयामि । किंभूतमाननम् । कोपभरेणार्थान्मयि कुटिलभ्रु । कुटिले
कुञ्चिते भ्रुवौ यत्र । किमिव शोणपद्ममिव उपरिभ्रमता भ्रमरेणाकुलम् । अत्र
कोपारक्तमुखं पद्मेनोपमीयते । भ्रमरेण कुटिले कोपावेशपरिस्फुरमाणे भ्रुवाविति ।
अत्र वाक्यार्थोपमालंकारः । तथा च – 'तदाननमधीराक्षमाविद्धं शतदीधिति
भ्रमद्भुङ्गमिवालक्ष्य केसरं भाति पङ्कजम् ॥' इति ॥ ५ ॥ तामहमिति
अहं अनिशमनवरतं हृदि संगतां हृदये मिलितां तां भृशमत्यर्थं रमयामि
इत्युक्त्वा पुनः प्रबुद्ध्याह । इष्टशून्यप्रदेशे वृथा किं विलपामि तां वनेऽनुस
तया विना मम धनेन किम् । न किंचित्प्रयोजनमित्यर्थः । ननु धनं विना परिजनसंग्रहः
कथं स्यादित्यत आह । तया विना मम जनेनाश्रितेन परिजनेन किम् । न किमपि
प्रयोजनम् । ननु परिजनं विना गोधनरक्षा कथं भविष्यतीत्यत आह । तया विना मम
गोधनेन किम्
न किमपि प्रयोजनम् । ननु धनं विना परिजनादृते च गृहरक्षापि न
स्यादित्यत आह । तया विना मम गृहेणापि किम् । अपि तु प्रयोजनं नास्तीत्यर्थः । ननु
गृहं विना सांसारिका भोगाः कथं सेत्स्यन्तीत्यत आह । तया बिना मम सुखेनापि किम् ।
स्रक्चन्दनवनितादिजन्येनापि सुखेन किं प्रयोजनमित्यर्थः । इयं च स्मृत्याख्या तृतीया-
वस्था । तदुक्तं रसार्णवसुधाकरे – 'अर्थानामनुभूतानां देशकालानुवर्तिनाम् । सातत्येन
परामर्शो मानसः स्यादनुस्मृतिः ॥ अत्रानुभावविश्वासाद्धीनं कृत्वा विहस्तता । राज्यास
नादिविद्वेषश्चेत्याद्याः स्मरकल्पिताः ॥' इति ॥ ४ ॥ चिन्तयामीति । अहं तदाननं
चिन्तयामि स्मरामि । कीदृशम् । रोषभरेण कोपातिशयेन कुटिलभ्रु कुटिला वका अर्यत्र
तादृशम् । किमिव । उपरि भ्रमता भ्रमरेणाकुलं व्याप्तं शोणपद्ममिव । अत्र रोषारुणे मुखे
अनेन
शोणपद्मसादृश्यं बोध्यम् । वारंवारं वक्रीभवन्त्योभ्रुवोश्च भ्रमद्भमरोपमा बोध्या
गुणकीर्तनाख्या चतुर्थांवस्था । तदुक्तम् – 'अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षणैः। न तस्य
सदृशः कश्चिदित्यादि गुणकीर्तनम् ॥' इति । 'शोण: कोकनदच्छवि:' इत्यमरः ॥ ५ ॥
तामहमिति । तामनुसरामि तस्या अनुसरणं करोमि । इह वृथा किं विलपामि
किमिति वृथा विलापं करोमि । हृदि संगतां हृदये संनिहितामनिशं निरन्तरं भृशमति-
शयेन तां रमयामि क्रीडयामि । यद्वा किंशब्दः प्रश्ने । अहं तां हृदि संगतामनिशं
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
1