This page has been fully proofread once and needs a second look.

गुर्जरीरागयतितालाभ्यां गीयते ॥ प्र० ॥ ७ ॥
 
मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि न वारिताऽतिभयेन ।

हरिहरि हतादरतया गता सा कुपितेव ॥ ध्रुवम् ॥ ३ ॥
 
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं म[^१]म जीवितेन गृहेण ॥ हरिहरि० ॥ ४ ॥
 
वंशस्थवृत्तम् ॥ २ ॥ उक्तमर्थं गीतेन स्पष्टयति । तत्र पूर्वं ध्रुवपदम् । <pratika>हरीति ।</pratika>
हरिहरीति खेदे । सा राधा कुपितेव गता । कया हृतादरतया । हतो विनाशित
आदरो बहुमानस्तस्य भावस्तया । इति ध्रुवः । अथ पदानि । <pratika>मामियमिति ।</pratika>मां
वधूनिचयेन वृतं विलोक्य गतेति ध्रुवपदेनैकवाक्यत्वात्संबन्धः । किंभूता । तादृशी
मया चलितापि सापराधतया न वारिता न निषिद्धा । इह साकूतम् । तस्या गमने
हेतुं जानन्नपि सापराधोऽस्मि । कथमेतस्या अग्रे मयातिभयेन वक्तुं पार्यत इति
बुद्ध्या । अतिशयितं भयं यस्येति मयेत्यस्य विशेषणम् । करणे तृतीया । अतिक्रान्तं
भयमिति वधूनिचयविशेषणं वा । अथवा मामेवं विलोक्य सा चलितापि मया न
वारिता । हरिहरि गतेति विषादाभिनयेन योज्यम् ॥ ३ ॥ <pratika>किमिति ।</pratika>इदानीं
मदपराधे मन्निमित्तमेव सा विषादं भुङ्क्त इति आत्मसमत्वेन तामपि गणयन्नाह --
<pratika>सा किं करिष्यतीति ।</pratika>मयि मिलिते कोपेर्ष्यादिकं कथं विधास्यतीत्यर्धोक्त्या ।
तदनु कृतापराधं मां चरणपतितं दृष्ट्वा किं वदिष्यतीत्यपि चार्धोक्त्या । अहमुत्तरं
दास्यामीत्याह । किं जनेनेति । गोपीजनेन । किं धनेनेति । धनमप्यकिंचित्करं
 
अवश्य इति चिन्ता भवेद्यथेति तेन श्लोकेन चिन्ताख्या द्वितीयावस्था ध्वनिता । तदुक्तं
शृङ्गारतिलके -- "स्वयं संपद्यतः प्राप्य किं कुपात्रस्य सिद्धये । कथं भवेदसौ वश्य इति
चिन्ता भवेद्यथा ॥" इति ॥ २ ॥ कृतानुतापमेव गीतेन कथयति -- <pratika>मामियमिति ।</pratika> गीत-
स्यास्य गुर्जरी रागः । प्रतिमठतालः । गीतार्थस्तु -- हरिहरि कष्टम् । सा राधा हतादरतया
कुपितेव गता । ननु सा कुपिता गतेति त्वया कथं ज्ञातमित्यत आह -- <pratika>मामियमिति ।</pratika>
मां वधूनिचयेन गोपवधूसमूहेन वेष्टितं विलोक्य दृष्ट्वा चलिता प्रस्थिता । विलोक्येत्यव्य-
वहितपूर्वकाले क्त्वा । तेन गोपवधूवेष्टितं मां दृष्ट्वाऽव्यवहितकाल एव यतश्चलिता ततो
ज्ञायते कुपितेवेति भावः । ननु मा गच्छेति त्वया किमिति न निवारितेत्यत आह --
<pratika>सापराधतयेति ।</pratika>मयातिभयेनातिशयितभीत्या सा न निवारिता । भयहेतुमाह -- <pratika>सापरा-
धेति ।</pratika>अपराधो राधां विहायान्यगोपीभिः सह क्रीडारूपस्तद्युक्ततया ॥ ३ ॥ <pratika>किं करिष्य-
तीति ।</pratika>सा चिरं विरहेण चिरकालीनमद्वियोगेन किं करिष्यति । विरहतापस्यात्यर्थं कमु-
पायं करिष्यतीत्यर्थः । अथ च किं वदिष्यति । किं मम सद्गुणं वदिष्यति दोषान्वा वदिष्य-
तीत्यर्थः । यद्वा । काकुस्वरे किं वदिष्यति । मया सह ( न ) कदाचिद्वार्तां कथयिष्यतीत्यर्थः ।
 
[^१.] "मम किं गृहेण सुखेन" इति पाठः ।