This page has been fully proofread once and needs a second look.

सर्गः ३ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
<bold>गुर्जरीरागयतितालाभ्यां गीयते ॥ प्र० ॥ ७ ॥
</bold>
 
मामियं चलिता विलोक्य वृतं वधूनिचयेन ।

सापराधतया मयापि न वारिताऽतिभयेन ।
 
५४४२
संस्कृत काव्य
५५२७
 

हरिहरि हतादरतया गता सा कुपितेव ॥ ध्रुवम् ॥ ३ ॥

 
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
 

किं धनेन जनेन किं मैम[^१]म जीवितेन गृहेण ॥ हरिहरि० ॥ ४ ॥
 

 
वंशस्थवृत्तम् ॥ २ ॥ उक्तमर्थं गीतेन स्पष्टयति । तत्र पूर्वं ध्रुवपदम् । <pratika>हरीति ।
</pratika>
हरिहरीति खेदे । सा राधा कुपितेव गता । कया हृतादरतया । तो विनाशित

आदरो बहुमानस्तस्य भावस्तया । इति ध्रुवः । अथ पदानि । <pratika>मामियमिति । </pratika>मां

वधूनिचयेन वृतं विलोक्य गतेति ध्रुवपदेनैकवाक्यत्वात्संबन्धः । किंभूता । तादृशी

मया चलितापि सापराधतया न वारिता न निषिद्धा । इह साकूतम् । तस्या गमने

हेतुं जानन्नपि सापराधोऽस्मि । कथमेतस्या अग्रे मयातिभयेन वक्तुं पार्यंत इति

बुद्ध्या । अतिशयितं भयं यस्येति मयेत्यस्य विशेषणम् । करणे तृतीया । अतिक्रान्तं

भय मिति वधूनिचय विशेषणं वा । अथवा मामेवं विलोक्य सा चलितापि मया न

वारिता । हरिहरि गतेति विषादाभिनयेन योज्यम् ॥ ३ ॥ <pratika>किमिति । </pratika>इदानीं

मदपराधे मन्निमित्तमेव सा विषादं भुङ्क्त इति आत्मसमत्वेन तामपि गणयन्नाह -
-
<pratika>
सा किं करिष्यतीति । </pratika>मयि मिलिते कोपेर्ष्यादिकं कथं विधास्यतीत्यर्धोत्तया ।
क्त्या ।
तदनु कृतापराधं मां चरणपतितं दृष्ट्वा किं वदिष्यतीत्यपि चार्घोत्तधोक्त्या । अहमुत्तरं

दास्यामीत्याह । किं जनेनेति । गोपीजनेन । किं धनेनेति । धनमप्य किंचित्करें
 
रं
 
अवश्य इति चिन्ता भवेद्यथेति तेन श्लोकेन चिन्ताख्या द्वितीयावस्था ध्वनिता । तदुक्तं

शृङ्गारतिलके–' -- "स्वयं संपद्यतः प्राप्य किं कुपात्रस्य सिद्धये । कथं भवेदसौ वश्य इति

चिन्ता भवेद्यथा ॥'" इति ॥ २ ॥ कृतानुतापमेव गीतेन कथयति -- <pratika>मामि मिति ।</pratika> गीत-

स्यास्य गुर्जरी रागः । प्रतिमठतालः । गीतार्थस्तु -- हरिहरि कष्टम् । सा राधा हतादरतया

कुपितेव गता । ननु सा कुपिता गतेति त्वया कथं ज्ञातमित्यत आह -- <pratika>मामियमिति ।
</pratika>
मां वधूनिचयेन गोपवधूसमूहेन वेष्टितं विलोक्य दृष्ट्वा चलिता प्रस्थिता । विलोक्येत्यव्य-

वहितपूर्वकाले क्त्वा । तेन गोपवधूवेष्टितं मां दृष्ट्वाऽव्यवहितकाल एव यतश्चलिता ततो

ज्ञायते कुपितेवेति भावः । ननु मा गच्छेति त्वया किमिति न निवारितेत्यत आह
--
<pratika>
सापराधतयेति । </pratika>मयातिभयेनातिशयितभीत्या सा न निवारिता । भयहेतुमाह - - <pratika>सापरा-
घेति ।

धेति ।</pratika>
अपराधो राधां विहायान्यगोपीभिः सह क्रीडारूपस्तद्युक्ततया ॥ ३ ॥ <pratika>किं करिष्य-

तीति । </pratika>सा चिरं विरहेण चिरकालीनमद्वियोगेन किं करिष्यति । विरहतापस्यात्यर्थं कमु-

पायं करिष्यतीत्यर्थः । अथ च किं वदिष्यति । किं मम सद्गुणं वदिष्यति दोषान्वा वदिष्य-

तीत्यर्थः । यद्वा । काकुस्वरे किं वदिष्यति । मया सह ( न ) कदाचिद्वार्तातां कथयिष्यतीत्यर्थः ।
 

 
[^
'.] "मम किं गृहेण सुखेन'" इति पाठः। श्रीलक्ष्मीवर विद्यामि
 
Ph
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag, Digitized by eGangotri
व्यवस्थापक- पं. चक्रधरजोशी