2022-10-18 04:14:00 by ambuda-bot
This page has not been fully proofread.
सर्गः ३ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
गुर्जरीरागयतितालाभ्यां गीयते ॥ प्र० ॥ ७ ॥
मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि न वारिताऽतिभयेन ।
५४४२
संस्कृत काव्य
५५२७
॥ हरिहरि हतादरतया गता सा कुपितेव ॥ ध्रुवम् ॥ ३ ॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मैम जीवितेन गृहेण ॥ हरिहरि० ॥ ४ ॥
वंशस्थवृत्तम् ॥ २ ॥ उक्तमर्थं गीतेन स्पष्टयति । तत्र पूर्वं ध्रुवपदम् । हरीति ।
हरिहरीति खेदे । सा राधा कुपितेव गता । कया हृतादरतया । इतो विनाशित
आदरो बहुमानस्तस्य भावस्तया । इति ध्रुवः । अथ पदानि । मामियमिति । मां
वधूनिचयेन वृतं विलोक्य गतेति ध्रुवपदेनैकवाक्यत्वात्संबन्धः । किंभूता । तादृशी
मया चलितापि सापराधतया न वारिता न निषिद्धा । इह साकूतम् । तस्या गमने
हेतुं जानन्नपि सापराधोऽस्मि । कथमेतस्या अग्रे मयातिभयेन वक्तुं पार्यंत इति
बुद्ध्या । अतिशयितं भयं यस्येति मयेत्यस्य विशेषणम् । करणे तृतीया । अतिक्रान्तं
भय मिति वधूनिचय विशेषणं वा । अथवा मामेवं विलोक्य सा चलितापि मया न
वारिता । हरिहरि गतेति विषादाभिनयेन योज्यम् ॥ ३ ॥ किमिति । इदानीं
मदपराधे मन्निमित्तमेव सा विषादं भुत इति आत्मसमत्वेन तामपि गणयन्नाह -
साकिं करिष्यतीति । मयि मिलिते कोपेर्ष्यादिकं कथं विधास्यतीत्यर्धोत्तया ।
तदनु कृतापराधं मां चरणपतितं दृष्ट्वा किं वदिष्यतीत्यपि चार्घोत्तया । अहमुत्तरं
दास्यामीत्याह । किं जनेनेति । गोपीजनेन । किं धनेनेति । धनमप्य किंचित्करें
अवश्य इति चिन्ता भवेद्यथेति तेन श्लोकेन चिन्ताख्या द्वितीयावस्था ध्वनिता । तदुक्तं
शृङ्गारतिलके–'स्वयं संपद्यतः प्राप्य किं कुपात्रस्य सिद्धये । कथं भवेदसौ वश्य इति
चिन्ता भवेद्यथा ॥' इति ॥ २ ॥ कृतानुतापमेव गीतेन कथयति — मामि मिति । गीत-
स्यास्य गुर्जरी रागः । प्रतिमठतालः । गीतार्थस्तु — हरिहरि कष्टम् । सा राधा हतादरतया
कुपितेव गता । ननु सा कुपिता गतेति त्वया कथं ज्ञातमित्यत आह — मामियमिति ।
मां वधूनिचयेन गोपवधूसमूहेन वेष्टितं विलोक्य दृष्ट्वा चलिता प्रस्थिता । विलोक्येत्यव्य-
वहितपूर्वकाले क्त्वा । तेन गोपवधूवेष्टितं मां दृष्ट्वाऽव्यवहितकाल एव यतश्चलिता ततो
ज्ञायते कुपितेवेति भावः । ननु मा गच्छेति त्वया किमिति न निवारितेत्यत आह—
सापराधतयेति । मयातिभयेनातिशयितभीत्या सा न निवारिता । भयहेतुमाह - सापरा-
घेति । अपराधो राधां विहायान्यगोपीभिः सह क्रीडारूपस्तयुक्ततया ॥ ३ ॥ किं करिष्य-
तीति । सा चिरं विरहेण चिरकालीनमद्वियोगेन किं करिष्यति । विरहतापस्यात्यर्थं कमु-
पायं करिष्यतीत्यर्थः । अथ च किं वदिष्यति । किं मम सद्गुणं वदिष्यति दोषान्वा वदिष्य-
तीत्यर्थः । यद्वा । काकुस्वरे किं वदिष्यति । मया सह ( न ) कदाचिद्वार्ता कथयिष्यतीत्यर्थः ।
१ 'मम किं गृहेण सुखेन' इति पाठः। श्रीलक्ष्मीवर विद्यामि
Ph
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag, Digitized by eGangotri
व्यवस्थापक- पं. चक्रधरजोशी