This page has been fully proofread once and needs a second look.

५४
 
[
<bold>तृतीयः सर्गः
 
गीतगोविन्दकाव्यम्
 
तृतीयः सर्गः ।
 
।</bold>
 
मुग्धमधुसूदनः ।
 

 
कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
 

राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १ ॥

 
इतस्ततस्तामनुसृत्य राधिकामनङ्गबाणव्रणखिन्नमानसः ।

कृतानुतापः स कलिन्दनन्दिनीतटान्तकुञ्जे विषेष[^१]साद माधवः ॥ २॥
 

 
गेयानुगुणैरधिकैरधिगतं तनुते धातुं बुधसंमतम् ।
 

नत्वा विधिमिह सुरवरनतं कुम्भनरेशोऽलंकृतियुतम् ॥

इदानीं राधायाः कृष्णेऽनुरागं निरूप्य कृष्णस्यापि राधायामनुरागं दर्शयन्नाह

गौडकृतिरागेण -- <pratika>कंसारिरिति ।</pratika> कंसारिरपि व्रजसुन्दरीस्तत्याज । न केवलं राधैव

कृष्णसक्ता बभूव किंतु कृष्णोऽपि राधासक्तो बभूवेत्यपिशब्दार्थः । किं कृत्वा ।

राधां हृदये आधायारोप्य । किंभूतां राधाम् । संसारवासनाबन्धे शृङ्खलेव शृङ्खला ।

अत्र '"तक्कजोर्ज'" इति पथ्या छन्दः ॥ १ ॥ इदानीं कृष्णस्य विरहावस्थाचेष्टि-

तमाह -- <pratika>इतस्तत इति । </pratika>स माधवोऽनङ्गबाणव्रणखिन्नमानसः सन् विषसाद

विषादं चकार । किं कृत्वा । कलिन्दनन्दिनीतटान्तकुञ्जे इतस्ततस्तां राधामनु-

सृत्यान्विष्य । किं विशिष्टः । कृतानुतापः पूर्वमेव मया कथं नानुनी तेति कृतपश्चात्तापः ।

अत्र कुजेष्विति वक्तव्ये बहुध्ष्वपि परिभ्रमन् तदार्तिवशादेकमेवाशाज्ञासी दित्येकवचनम् ।
 

 
राधायाः कृष्णविषयिणीमुत्कण्ठामुक्त्वा संप्रति कृष्णस्यापि तस्यामुत्कण्ठामाह - - <pratika>कंसा.
-
रिरिति । </pratika>कृष्णोऽपि व्रजसुन्दरीस्तापात्तत्याज । त्यागे हेतुगर्भविशेषणमाह -- <pratika>राधामिति ।
</pratika>
राधां हृदय आधायारोप्य । सुन्दरीपदेन बहुवचनेन सौन्दर्यवतीरपि तत्याजेति कथनेन

कृष्णस्य राधायामनुरागातिशयो ध्वनितः । कीदृशीं राधाम् । संसारविषयिणी वासना

संस्कारस्तस्य बन्धनेन शृङ्खलामिव । अनेनाभिलाषाख्या प्रथमावस्था । एतल्लक्षणं च

दशरूपके–' -- "अभिलाषः स्पृहा तत्र कामे सर्वाङ्गसुन्दरे । दृष्टे श्रुते वा तत्रापि विस्मया-

नन्दसाध्वसम् ॥'" इति '"शृङ्खला पुंस्करे वस्त्रबन्धेऽपि निगडेऽपि च'" इति विश्वः ॥ १ ॥

<pratika>
इतस्तत इति । </pratika>स माधवः कलिन्दनन्दिन्या यमुनायास्तटान्तकुञ्जे तीरप्रान्तलतापिहि-

तोदरगृहे निषसाद न्यवसत् । अत्र माधवपदेन मा लक्ष्मीस्तस्या अपि धवः स्वामी

यद्विरहव्याकुलो बभूवेति राधायाः सौभाग्याधिक्यं ध्वनितम् । किं कृत्वा । इतस्ततस्तेषु

स्थानेषु तां हृदयनिहितामनुसृत्यानुलक्ष्य । कीदृशः । अनङ्गस्य कामबाणस्य यद्व्रणं क्षतं तेन

खिन्नं दुःखितं मानसं यस्य । पुनः कीदृशः । कृतानुतापः कृतः किमिति मया तस्या अद्या
-
वधीरणं कृतमिति पश्चात्तापो येन सः । अनङ्गबाणेत्यत्रानङ्गपदेनाङ्गरहितस्यात एवालक्षित-

गतागतस्य कामस्या शेषदुष्टदमनेनापि कृष्णेन निवारणं कर्तुं न शक्यमिति ध्वनितम् ।
 

 
[^
'.] "निषसाद'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri