2022-10-18 04:14:00 by ambuda-bot
This page has not been fully proofread.
५४
[ सर्गः ३
गीतगोविन्दकाव्यम्
तृतीयः सर्गः ।
मुग्धमधुसूदनः ।
कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १ ॥
इतस्ततस्तामनुसृत्य राधिकामनङ्गबाणवणखिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनीतटान्तकुञ्जे विषेसाद माधवः ॥ २॥
गेयानुगुणैरधिकैरधिगतं तनुते धातुं बुधसंमतम् ।
नत्वा विधिमिह सुरवरनतं कुम्भनरेशोऽलंकृतियुतम् ॥
इदानीं राधायाः कृष्णेऽनुरागं निरूप्य कृष्णस्यापि राधायामनुरागं दर्शयन्नाह
गौडकृतिरागेण– कंसारिरिति । कंसारिरपि व्रजसुन्दरीस्तत्याज । न केवलं राधैव
कृष्णसक्ता बभूव किंतु कृष्णोऽपि राधासक्तो बभूवेत्यपिशब्दार्थः । किं कृत्वा ।
राधां हृदये आधायारोप्य । किंभूतां राधाम् । संसारवासनाबन्धे शृङ्खलेव शृङ्खला ।
अत्र 'तक्कजोर्ज' इति पथ्या छन्दः ॥ १ ॥ इदानीं कृष्णस्य विरहावस्थाचेष्टि-
तमाह — इतस्तत इति । स माधवोऽनङ्गबाणव्रणखिन्नमानसः सन् विषसाद
विषादं चकार । किं कृत्वा । कलिन्दनन्दिनीतटान्तकुञ्जे इतस्ततस्तां राधामनु-
सृत्यान्विष्य । किं विशिष्टः । कृतानुतापः पूर्वमेव मया कथं नानुनी तेति कृतपश्चात्तापः ।
अत्र कुजेष्विति वक्तव्ये बहुध्वपि परिभ्रमन् तदार्तिवशादेकमेवाशासी दित्येकवचनम् ।
राधायाः कृष्णविषयिणीमुत्कण्ठामुक्त्वा संप्रति कृष्णस्यापि तस्यामुत्कण्ठामाह - कंसा.
रिरिति । कृष्णोऽपि व्रजसुन्दरीस्तापात्तत्याज । त्यागे हेतुगर्भविशेषणमाह —राधामिति ।
राधां हृदय आधायारोप्य । सुन्दरीपदेन बहुवचनेन सौन्दर्यवतीरपि तत्याजेति कथनेन
कृष्णस्य राधायामनुरागातिशयो ध्वनितः । कीदृशीं राधाम् । संसारविषयिणी वासना
संस्कारस्तस्य बन्धनेन शृङ्खलामिव । अनेनाभिलाषाख्या प्रथमावस्था । एतलक्षणं च
दशरूपके–'अभिलाषः स्पृहा तत्र कामे सर्वाङ्गसुन्दरे । दृष्टे श्रुते वा तत्रापि विस्मया-
नन्दसाध्वसम् ॥' इति 'शृङ्खला पुंस्करे वस्त्रबन्धेऽपि निगडेऽपि च' इति विश्वः ॥ १ ॥
इतस्तत इति । स माधवः कलिन्दनन्दिन्या यमुनायास्तटान्तकुञ्जे तीरप्रान्तलतापिहि-
तोदरगृहे निषसाद न्यवसत् । अत्र माधवपदेन मा लक्ष्मीस्तस्या अपि धवः स्वामी
यद्विरहव्याकुलो बभूवेति राधायाः सौभाग्याधिक्यं ध्वनितम् । किं कृत्वा । इतस्ततस्तेषु
स्थानेषु तां हृदयनिहितामनुसृत्यानुलक्ष्य । कीदृशः । अनङ्गस्य कामबाणस्य यद्रणं क्षतं तेन
खिन्नं दुःखितं मानसं यस्य । पुनः कीदृशः । कृतानुतापः कृतः किमिति मया तस्या अद्या
वधीरणं कृतमिति पश्चात्तापो येन सः । अनङ्गबाणेत्यत्रानङ्गपदेनाङ्गरहितस्यात एवालक्षित-
गतागतस्य कामस्या शेषदुष्टदमनेनापि कृष्णेन निवारणं कर्तुं न शक्यमिति ध्वनितम् ।
१ 'निषसाद' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri