This page has not been fully proofread.

सर्ग: २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
५३
 
माणमौचित्यचारुतामाचरति । यदाहुः – '-- "विशेषणैः समुचितैर्विशेष्यार्थः प्रकाश्यते ।

गुणाधिकैर्गुणोदारः सुहृद्भिरिव सज्जनः ॥" इति ॥ १२ ॥

शृङ्गारोत्तरसत्प्रमेयभणितावुद्गीतगोविन्द के

प्रत्यर्थि प्रभुगर्व पर्वत सुपर्वाधीशशोभाभृता ।

श्रीपुम्माणनरेश वंश विशदक्ष्माभृद्वतंसायित-

श्रीमत्कुम्भधराधिपेन विवृतः सर्गे द्वितीयेऽन्वयः ॥
 

 
तथा च सङ्गीतराजे -
 

 
" गीतौ भैरवरागेण ताले वर्णयतौ यथा ।

आभोगान्तस्थितैः पाटैः स्वरैः पद्याञ्चितस्ततः ॥

अक्लेश केशवादिश्च कुञ्जरस्तिलकाभिधः ॥'
 

 
इति अक्लेशकेशवकुञ्जरतिलकनामा षष्ठः प्रबन्धः ॥ ६ ॥

इति श्रीराजाधिराजहम्मीरवीरवंशकरीरेण श्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते

गीतगोविन्दविवरणे अक्लेशकेशवनामा द्वितीयः सर्गः ॥ २ ॥
 

 
काव्यं गीत्यनुसारि दुर्लभमथ स्फीतं प्रसादादिभि
 

 
र्लक्ष्मीकान्तविलासवर्णनरसस्तत्रापि लोकोत्तरः ।

सर्वं चैतदभूदरण्यरुदितं पद्मावतीवल्लभ-

स्यैतां चेद्रसमञ्जरीं न रचयेच्छ्रीशालिनाथप्रभुः ॥

इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां

गीतगोविन्दटीकायां रसमजर्याख्यायां द्वितीयः सर्गः ॥ २ ॥
 
७ गीत
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri