This page has been fully proofread once and needs a second look.

५२
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: २
 

 
साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित-

भ्रूवल्लीकमलीकदर्शितभुजामूलोर्ध्वहस्तस्तनम्
[^१]स्तस्तनम् ।
गोपीनां निभृतं निरीक्ष्य गेग[^२]मिताकारं चिन्तय
-
नन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः ॥ १२ ॥

 
इति अक्लेशकेशवो नाम द्वितीयः सर्गः ॥ २ ॥
 

 

 
मागधी गौडीया च रीतिः ॥ ११ ॥ इदानीं सर्गान्ते कविर्भक्तजनानाशास्ते-

<pratika>
साकृकूतेति । </pratika>केशवो हरिर्वो युष्माकं क्लेशं हरतु । किंलक्षणः । गमिताकाङ्क्षः गमिता

नाशं नीता आकाङ्क्षाभिलाषो येन स तथा । अर्थात् गोपीषु । किं कुर्वन् । चिरं

निभृतं यथा स्यात्तथा निरीक्ष्यान्तर्हृदये चिन्तयन् । किं निरीक्ष्येत्यपेक्षायामाह । साकू-

तस्मितं साभिप्रायमीषद्धसितम् । पुनः किम् । आकुलाकुलगलद्धम्मिल्लम् । आकुला-

कुलं कामोद्रे काद्रोमाञ्चोद्गमादिहेतुना गलद्धम्मिल्लं विगलत्केशबन्धम् । पुनः किम् । उल्ला-

सितभ्रूवल्ली कमुत्क्षिप्त भ्रूवल्लीकम् । पुनः किम् । अलीकदर्शितभुजामूलो र्ध्वहस्त स्तनम् ।
स्तनम् ।
भुजायाः मूलं भुजामूलं भुजामूले ऊर्ध्वो यौ हस्तौ भुजामूलोर्ध्वहस्तौ । अलीकं दर्शि
तौ
भुजमूलोर्ध्वहस्ताभ्यां स्तनौ यत्र कर्मणि तत् । कासामित्यपेक्षायामाह । गोपीनाम् ।

तच्चतुष्टयं हेतुगर्भवत्त्वेन विशिनष्टि । <pratika>मुग्धमनोहरमिति । </pratika>मुग्धानां मूर्खाणां मनो

हरतीति न मत्सदृशस्येति गमिताकाङ्क्षत्वे हेतुः । तदेवाग्रिमे सर्गे प्रकटयिष्यति ।
'

"
राधामाधाय हृदये तत्याज व्रजसुन्दरीः'" इत्यादिना । अत एव नवः सकलपुमपे-

क्षया चरितविशेषेण नवोऽन्यादृश इव । '"सुभाषितेन गीतेन युवतीनां च

लीलया । चेतो न भिद्यते यस्य स वै मुक्तोऽथ वा पशुः ॥" इति वचनात् । अथवा

नूयते स्तूयत इति नवः । अथवा नवस्तरुणः । तरुणं दृष्ट्वा कामिनीनां कामचेष्टा

जायत एव । अथवा तस्मिन्पक्षे गोपीनां निभृतं भावं निरीक्ष्येति व्याख्येयम् । तदा

साकूतस्मितेत्यादि चतुर्णामपि पदानां भावविशेषणपक्षे निक्षेपः । मुग्धमनोहर मिति
मिति
क्रियाविशेषणम् । अत्र विदग्धो नायकः । समुच्चयाशिषावलंकृती । शार्दूलविक्री-

डितं वृत्तम् । परिकरोऽलंकारश्च । अत्र यत्सकलकामिनीकामपूरकस्य कामजनकस्य

विलासवतीविलासादिभिरगृह्यस्य यन्नवत्वविशेषणेनान्यादृशत्वमुपपादितं तद्विचार्य-
'

 
"
स्तोकोऽल्पे चातके'" इति विश्वः । '"स्याद्गुच्छकस्तु स्तबकः'" इत्यमरः । '"लता ज्योतिष्मतीवृक्ष-

शाखावलिप्रियङ्गुषु'" इति विश्व: । 'वः । "कासार:रः सरसी सरः'" इत्यमरः । '"स्त्रीरलंत्नं मल्लिकायां च

प्रोक्ता शिखरिणी बुधैः'" इति विश्वः ॥ ११ ॥
 

 
[^
'.] "मूलार्धदृष्ट'" इति पाठः । [^ '.] "दयिताकाङ्क्षः'" इति पाठः । [^.] अस्य पद्यस्य व्याख्या

रसमञ्जरीटीकापुस्तके गलितास्ति ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri