This page has not been fully proofread.

५२
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: २
 

 
साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित-
भ्रूवल्लीकमलीकदर्शितभुजामूलोर्ध्वहस्तस्तनम्
गोपीनां निभृतं निरीक्ष्य गेमिताकारं चिन्तय
नन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः ॥ १२ ॥
इति अक्लेशकेशवो नाम द्वितीयः सर्गः ॥ २ ॥
 

 
मागधी गौडीया च रीतिः ॥ ११ ॥ इदानीं सर्गान्ते कविर्भक्तजनानाशास्ते-
साकृतेति । केशवो हरिर्वो युष्माकं क्लेशं हरतु । किंलक्षणः । गमिताकाङ्क्षः गमिता
नाशं नीता आकाङ्क्षाभिलाषो येन स तथा । अर्थात् गोपीषु । किं कुर्वन् । चिरं
निभृतं यथा स्यात्तथा निरीक्ष्यान्तर्हृदये चिन्तयन् । किं निरीक्ष्येत्यपेक्षायामाह । साकू-
तस्मितं साभिप्रायमीषद्धसितम् । पुनः किम् । आकुलाकुलगलद्धम्मिल्लम् । आकुला-
कुलं कामोद्रे काद्रोमाञ्चोद्गमादिहेतुना गलद्धम्मिल्लं विगलत्केशबन्धम् । पुनः किम् । उल्ला-
सितवल्ली कमुत्क्षिप्त भ्रूवल्लीकम् । पुनः किम् । अलीकदर्शितभुजामूलो र्ध्वहस्त स्तनम् ।
भुजायाः मूलं भुजामूलं भुजामूले ऊर्ध्वो यौ हस्तौ भुजामूलोर्ध्वहस्तौ । अलीकं दर्शित
भुजमूलोर्ध्वहस्ताभ्यां स्तनौ यत्र कर्मणि तत् । कासामित्यपेक्षायामाह । गोपीनाम् ।
तच्चतुष्टयं हेतुगर्भवत्त्वेन विशिनष्टि । मुग्धमनोहरमिति । मुग्धानां मूर्खाणां मनो
हरतीति न मत्सदृशस्येति गमिताकाङ्क्षवे हेतुः । तदेवाग्रिमे सर्गे प्रकटयिष्यति ।
'राधामाधाय हृदये तत्याज व्रजसुन्दरीः' इत्यादिना । अत एव नवः सकलपुमपे-
क्षया चरितविशेषेण नवोऽन्यादृश इव । 'सुभाषितेन गीतेन युवतीनां च
लीलया । चेतो न भिद्यते यस्य स वै मुक्तोऽथ वा पशुः ॥ इति वचनात् । अथवा
नूयते स्तूयत इति नवः । अथवा नवस्तरुणः । तरुणं दृष्ट्वा कामिनीनां कामचेष्टा
जायत एव । अथवा तस्मिन्पक्षे गोपीनां निभृतं भावं निरीक्ष्येति व्याख्येयम् । तदा
साकूतस्मितेत्यादि चतुर्णामपि पदानां भावविशेषणपक्षे निक्षेपः । मुग्धमनोहर मिति
क्रियाविशेषणम् । अत्र विदग्धो नायकः । समुच्चयाशिषावलंकृती । शार्दूलविक्री-
डितं वृत्तम् । परिकरोऽलंकारश्च । अत्र यत्सकलकामिनीकामपूरकस्य कामजनकस्य
विलासवतीविलासादिभिरगृह्यस्य यन्नवत्वविशेषणेनान्यादृशत्वमुपपादितं तद्विचार्य-
'स्तोकोऽल्पे चातके' इति विश्वः । 'स्याद्गुच्छकस्तु स्तबकः' इत्यमरः । 'लता ज्योतिष्मतीवृक्ष-
शाखावलिप्रियङ्गुषु' इति विश्व: । 'कासार: सरसी सरः' इत्यमरः । 'स्त्रीरलं मल्लिकायां च
प्रोक्ता शिखरिणी बुधैः' इति विश्वः ॥ ११ ॥
 
१ 'मूलार्धदृष्ट' इति पाठः । २ 'दयिताकाङ्क्षः' इति पाठः । ३ अस्य पद्यस्य व्याख्या
रसमञ्जरीटीकापुस्तके गलितास्ति ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri