This page has been fully proofread once and needs a second look.

सर्गः २ दुरालोक[^१] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
दुरालोक
स्तोकस्तबकनवकाशोकलतिका-
५१
 

विकासः कासारोपवनपवनोऽपि व्यथयति ।

अपि भ्राम्यद्भृङ्गीरैर[^२]णितरमणीया न मुकुल-

प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥
 
चा

 
वा
नाह -- <pratika>दुरालोक इति ।</pratika> हे सखि, दुरालोकस्तोकस्तकनवकाशोकलतिका-

विकासः मां व्यथयति । दुःखेनालोक्यते विरहिभिरिति दुरालोकः । दुरालोकः

स्तोकोऽल्पकः स्तबको गुच्छो यस्याः सा । अशोकलतिकायाः विकासः अशोकलतिका-

विकासः । नव एव नवकः । प्रशंसायां कः । नवकश्चासावशोकलतिकाविकासश्च ।

दुरालो कस्तो कस्तब
कश्चासौ नवकाशोकलतिकाविकासश्च सः । अपि च । अयं कासा-

रोपवनपवनो व्यथयति । न केवलं सः पवनोऽपीति । '"कासारः सरसी सरः'" । अथवा

दुरालोक इत्यादिपवनविशेषणत्वेन योजनीयम् । दुरालो कस्तो कस्तबका चासौ नवकाशो-

कलतिका चेति तां विकासयति स इति कर्मण्यण् । अथवा अशोकलतिकाया विकासो

यस्मादिति । एतेन वायोस्त्रैविध्यमुक्तम् । अपि च न केवलं पवनः अपि तु चूतानां मुकु-

लप्रसूतिरपि न सुखयति । कीदृशी मुकुलप्रसूतिः । शिखरिणी साग्रा । पुनः कीदृशी ।

भ्राम्यद्भुभृङ्गीरणितरमणीया । भ्राम्यन्त्यः परितः स्फुरन्त्यो या भृङ्ग्यो भृङ्गाङ्गना-
स्वा

स्ता
सां रणितेन शब्दितेन रमणीया । अत्र मधुलिडङ्गनाग्रहणं पुरुषान्तराभिलाषनि-

वृत्त्या औचितीमावहति । अत्र शिखरिणी वृत्तम् । समुच्चयोऽलंकारः । लाटानुप्रासः

शब्दालंकारश्च । क्रियौचित्यं च । विप्रलम्भः शृङ्गारो रसः । सर्वत्र स्थितिलया गीतिः ।
 

 

 
दूतीमेव त्वरयितुमाह -- <pratika>दुरालोकेति ।</pratika> हे सखि, स्तोकोऽल्पः स्तबको गुच्छो यस्या

एतादृशी या नविकातिनवाऽशोकलतिकानुकम्प्याशोकशाखा तस्या विकास उद्बोधो दुरा-

लोको दुःखेनालोकयितुं शक्यः । नविकेत्यत्र ह्रस्वः । लतिकेत्यत्रानुकम्पायां कः । मद्धस्त-

पालिताऽत एवानुकम्प्याऽशोकलतिका दुरालोकेति भावः । किमपरम् । कासार:रः सरस्त -

त्संबन्धि यदुपवनं तत्संबन्धी यः पवनो वायुः सोऽपि व्यथयति । दुःखं ददातीत्यर्थः ।

कासारपदेन वायोः शैत्यं कथितम् । उपवनसंबन्धित्वेन ससौगन्ध्यं मान्द्यं च

ध्वनितम् । यतो वनवृक्षैरुपहतगतित्वेन मन्द एव वायुर्भवतीति । यद्वा । स्तोकेत्यादि

वायोरेव विशेषणम् । तदा स्तोकस्तबकनवकाशोकलतिकां विकासयतीत्येवंभूतः

पवनो व्यथयतीत्यन्वयः । नन्वभिमुखमागच्छन्पवनश्चलनादिना निवार्यतामित्यत आह
--
<pratika>
दुरालोक इति ।</pratika> अतीन्द्रिय इत्यर्थः । तथा चाकस्मादेवासौ न दृश्यत इति भावः ।

अपि च इयं शिखरिणि गोवर्धनगिरौ वर्तमाना चूतानामात्म्राणां मुकुलप्रसूतिरपि कुङ्ड्मलोद्ग-

मोऽपि न सुखयति । विकासदशायां तु को वेद किं करिष्यतीति कविना ध्वनितम् ।

प्रसूतिः शिखरिणी । प्रशस्ताग्रभागवतीत्यर्थः । शिखरिणीत्यत्र प्रशंसायामिन् । यद्वा इयं

शिखरिणी मल्लिका न सुखयतीत्यर्थः । कीदृशी । भ्राम्यन्तीनां भ्रमराङ्गनानां रणितिभिर्गु-
अति

ञ्जितै
रमणीया । शिखरिणीनामकं छन्द इत्यपि ध्वनितम् । तल्लक्षणं तु वृत्तरलात्नाकरे ।
 

 
[^
'.] "दुरालोकः स्तोकस्तबकन विका-'विका-" इति पाठः । [^ '.] "रणितिरमणीया'" इति पाठः ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
-