This page has not been fully proofread.

सर्गः २ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
दुरालोकस्तोकस्तबकनवकाशोकलतिका-
५१
 
विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृङ्गीरैणितरमणीया न मुकुल-
प्रसूतिश्चतानां सखि शिखरिणीयं सुखयति ॥ ११ ॥
 
चानाह– दुरालोक इति । हे सखि, दुरालोकस्तोकस्त व कनवकाशोकलतिका-
विकासः मां व्यथयति । दुःखेनालोक्यते विरहिभिरिति दुरालोकः । दुरालोकः
स्तोकोऽल्पकः स्तबको गुच्छो यस्याः सा । अशोकलतिकायाः विकासः अशोकलतिका-
विकासः । नव एव नवकः । प्रशंसायां कः । नवकश्चासावशोकलतिकाविकासश्च ।
दुरालो कस्तो कस्तब
कश्चासौ नवकाशोकलतिकाविकासश्च सः । अपि च । अयं कासा-
रोपवनपवनो व्यथयति । न केवलं सः पवनोऽपीति । 'कासारः सरसी सरः' । अथवा
दुरालोक इत्यादिपवनविशेषणत्वेन योजनीयम् । दुरालो कस्तो कस्तबका चासौ नवकाशो-
कलतिका चेति तां विकासयति स इति कर्मण्यण् । अथवा अशोकलतिकाया विकासो
यस्मादिति । एतेन वायोत्रैविध्यमुक्तम् । अपि च न केवलं पवनः अपि तु चूतानां मुकु-
लप्रसूतिरपि न सुखयति । कीदृशी मुकुलप्रसूतिः । शिखरिणी साग्रा । पुनः कीदृशी ।
भ्राम्यद्भुङ्गीरणितरमणीया । भ्राम्यन्त्यः परितः स्फुरन्त्यो या भृङ्ग्यो भृङ्गाङ्गना-
स्वासां रणितेन शब्दितेन रमणीया । अत्र मधुलिडङ्गनाग्रहणं पुरुषान्तराभिलाषनि-
वृत्त्या औचितीमावहति । अत्र शिखरिणी वृत्तम् । समुच्चयोऽलंकारः । लाटानुप्रासः
शब्दालंकारश्च । क्रियौचित्यं च । विप्रलम्भः शृङ्गारो रसः । सर्वत्र स्थितिलया गीतिः ।
 

 
दूतीमेव त्वरयितुमाह — दुरालोकेति । हे सखि, स्तोकोऽल्पः स्तबको गुच्छो यस्या
एतादृशी या नविकातिनवाऽशोकलतिकानुकम्प्याशोकशाखा तस्या विकास उद्बोधो दुरा-
लोको दुःखेनालोकयितुं शक्यः । नविकेत्यत्र ह्रस्वः । लतिकेत्यत्रानुकम्पायां कः । मद्धस्त-
पालिताऽत एवानुकम्प्याऽशोकलतिका दुरालोकेति भावः । किमपरम् । कासार: सरस्त -
त्संबन्धि यदुपवनं तत्संबन्धी यः पवनो वायुः सोऽपि व्यथयति । दुःखं ददातीत्यर्थः ।
कासारपदेन वायोः शैत्यं कथितम् । उपवनसंबन्धित्वेन ससौगन्ध्यं मान्द्यं च
ध्वनितम् । यतो वनवृक्षैरुपहतगतित्वेन मन्द एव वायुर्भवतीति । यद्वा । स्तोकेत्यादि
वायोरेव विशेषणम् । तदा स्तोकस्तबकनवकाशोकलतिकां विकासयतीत्येवंभूतः
पवनो व्यथयतीत्यन्वयः । नन्वभिमुखमागच्छन्पवनश्चलनादिना निवार्यतामित्यत आह
दुरालोक इति । अतीन्द्रिय इत्यर्थः । तथा चाकस्मादेवासौ न दृश्यत इति भावः ।
अपि च इयं शिखरिणि गोवर्धनगिरौ वर्तमाना चूतानामात्राणां मुकुलप्रसूतिरपि कुङ्मलोद्ग-
मोऽपि न सुखयति । विकासदशायां तु को वेद किं करिष्यतीति कविना ध्वनितम् ।
प्रसूतिः शिखरिणी । प्रशस्ताग्रभागवतीत्यर्थः । शिखरिणीत्यत्र प्रशंसायामिन् । यद्वा इयं
शिखरिणी मल्लिका न सुखयतीत्यर्थः । कीदृशी । भ्राम्यन्तीनां भ्रमराङ्गनानां रणितिभिर्गु-
अति रमणीया । शिखरिणीनामकं छन्द इत्यपि ध्वनितम् । तलक्षणं तु वृत्तरलाकरे ।
 
१ 'दुरालोकः स्तोकस्तबकन विका-' इति पाठः । २ 'रणितिरमणीया' इति पाठः ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
-