This page has been fully proofread once and needs a second look.

५०
 
गीतगोविन्दकाव्यम्
 
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-

वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।

मामुद्वीक्ष्य विलज्जितं स्मितसुधामुग्धाननं कानने
 

गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १० ॥
 
[ सर्गः २
 

 
लयश्छन्दः ॥९॥ इदानीं मनसा भावितं परमेश्वरं दृष्ट्वा सखेदमाह -- <pratika>हस्त त्स्रस्तेति ।
</pratika>
हे सखि, बत इति खेदे । अहं कानने वृन्दावने गोविन्दं पश्यामि व्यलीकं हृष्यामि

। किंविशिष्टं गोविन्दम् । व्रजसुन्दरीगणवृतं गोपाङ्गनासमूहयुक्तम् । पुनः किंभू-

तम् । स्मितसुधामधुरमाननं यस्य तम् । पुनः किंभूतम् । मामुद्रीवीक्ष्य मां दृष्ट्वा हस्ता-

त्स्रस्तः पतितो विलासवंशः केलिवेणुर्यस्य । अत एव विलज्जितं विह्वलीभूतम् । पुनः

किंभूतम् । अतिस्वेदेनार्द्रं गण्डस्थलं यस्य । गण्डस्थलामिति पाठे मामित्यस्य

विशेषणम् । संजातसात्त्विकभावां मां दृष्ट्वा सोऽपि संजातसात्त्विकभाव इति हस्त-

स्रस्तेति युक्तम् । पुनः किंभूतम् । अनृजुभ्रूवल्लिमद्ल्लवीवृन्दोत्सारिदृगन्तवीक्षितम् ।

कुटिलभ्रूवल्लियुतानां बल्लवीनां वृन्दे उत्सारि ऊर्ध्वप्रसरणशीलं दृगन्तवीक्षितं कटाक्षे-

क्षणं यस्य । अथवा अनृजुभ्रूवल्लिमद्ल्लवीवृन्देन उत्सारिणा दृगन्तेन वीक्षितम् ।

एतावता राधां प्रति तस्य स्वभावावलोकनं दृष्ट्वान्याभिरपसृतम् । अत्र
 

शार्दूलविक्रीडितं छन्दः । तथा दीपकमलंकारः । विप्रलम्भशृङ्गारो रसः । अत्र

गोविन्दस्य व्रजसुन्दरी परिवृतत्वेऽपि यत् आत्मौपाधिकदर्शनस्य लजिताहेतुलेन
हृ
त्वेन
र्षदर्शनकर्म अतोऽपादान मौचितीमावहति । पाञ्चाली रीतिः । लाटानुप्रासश्च ।

दक्षिणो नायकः । अन्यत्सर्वं समानम् ॥ १० ॥ इदानीं पुनरेव विप्रलम्भविभा-
'

 
"
आपोवनं निधुवनं सुरतेन समं त्रयम्'" इत्यमरः ॥ ९ ॥ स्वमनोरथानाह --<pratika>हस्तेति ।
</pratika>
हे सखि, अहं गोविन्दं कदा पश्यामि । कदाचिद्गोविन्ददर्शनं भविष्यतीत्याशङ्कायां

काकुः । अत एव हृष्यामि । तद्दर्शनजन्य आनन्दो मम कदाचिद्भविष्यतीत्यप्राप्याशंसेव 1

पश्यामि हृष्यामीति भविष्यत्सामीप्ये वर्तमानप्रयोगः । कीदृशम् । ब्व्रजसुन्दरीगणवृतं

गोपवधूकदम्बपरिवृतम् । ननु सपत्नीभिः परिवृतं दृष्ट्वा कथं ते हर्षो भविष्यतीत्यत

आह-- <pratika>मामिति ।</pratika> मामुद्रीक्ष्य दृष्ट्वा विलज्जितम् । पुनः कीदृशम् । अन्यवधूभिः

परिवृतोऽहमनया दृष्ट इति हेतोर्विषादसूचकं यत्स्मितं तदेव शुभ्रत्वादतिस्पृहणीयत्वाच्च सुधा

तया मुग्धं मनोहरमाननं मुखं यस्य । पुनः कीदृशम् । अनृजुः कुटिला भ्रूलता

यासामेतादृश्यो या बल्लव्यो गोपवध्वस्तासां वृन्दमुत्सारयत्येवंशीलं दृगन्तवीक्षितं नेत्रान्ते-

नावलोकितं यस्य तम् । मथ्य्यागतायां भिया दृगन्तचेष्टयान्यगोपीरपसारयतीत्यर्थः । पुनः

कीदृशम् । हस्तात्स्रस्तो विगलितो मद्दर्शनेन साध्वसवशात्स्खलितो विलासवंशः क्रीडा-

वेणुर्यस्य तम् । पुनः कीदृशम् । अतिशयेन स्वेदैरार्द्रं गण्डस्थलं यस्य तम् । सर्वत्र मामु-

द्वीक्ष्येत्यस्य संबन्धः ॥ १० ॥ हे सखि, धैर्यमवलम्बस्व मिलिष्यत्येव त्वां हरिरित्याश्वासयन्तीं
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri