2022-10-18 04:14:00 by ambuda-bot
This page has not been fully proofread.
५०
गीतगोविन्दकाव्यम्
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमल्लवी-
वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।
मामुद्वीक्ष्य विलज्जितं स्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १० ॥
[ सर्गः २
लयश्छन्दः ॥९॥ इदानीं मनसा भावितं परमेश्वरं दृष्ट्वा सखेदमाह – हस्त त्रस्तेति ।
हे सखि, बत इति खेदे । अहं कानने वृन्दावने गोविन्दं पश्यामि व्यलीकं हृष्यामि
च। किंविशिष्टं गोविन्दम् । व्रजसुन्दरीगणवृतं गोपाङ्गनासमूहयुक्तम् । पुनः किंभू-
तम् । स्मितसुधामधुरमाननं यस्य तम् । पुनः किंभूतम् । मामुद्रीक्ष्य मां दृष्ट्वा हस्ता-
त्स्रस्तः पतितो विलासवंशः केलिवेणुर्यस्य । अत एव विलजितं विह्वलीभूतम् । पुनः
किंभूतम् । अतिस्वेदेनार्द्र गण्डस्थलं यस्य । गण्डस्थलामिति पाठे मामित्यस्य
विशेषणम् । संजातसात्त्विकभावां मां दृष्ट्वा सोऽपि संजातसात्त्विकभाव इति हस्त-
स्रस्तेति युक्तम् । पुनः किंभूतम् । अनृजुभ्रूवल्लिमद्वल्लवीवृन्दोत्सारिदृगन्तवीक्षितम् ।
कुटिलभ्रूवल्लियुतानां बल्लवीनां वृन्दे उत्सारि ऊर्ध्वप्रसरणशीलं दृगन्तवीक्षितं कटाक्षे-
क्षणं यस्य । अथवा अनृजुभ्रूवल्लिमद्वल्लवीवृन्देन उत्सारिणा हगन्तेन वीक्षितम् ।
एतावता राधां प्रति तस्य स्वभावावलोकनं दृष्ट्वान्याभिरपसृतम् । अत्र
शार्दूलविक्रीडितं छन्दः । तथा दीपकमलंकारः । विप्रलम्भशृङ्गारो रसः । अत्र
गोविन्दस्य व्रजसुन्दरी परिवृतत्वेऽपि यत् आत्मौपाधिकदर्शनस्य लजिताहेतुलेन
हृर्षदर्शनकर्म अतोऽपादान मौचितीमावहति । पाञ्चाली रीतिः । लाटानुप्रासश्च ।
दक्षिणो नायकः । अन्यत्सर्वं समानम् ॥ १० ॥ इदानीं पुनरेव विप्रलम्भविभा-
'आपोवनं निधुवनं सुरतेन समं त्रयम्' इत्यमरः ॥ ९ ॥ स्वमनोरथाना – हस्तेति ।
हे सखि, अहं गोविन्दं कदा पश्यामि । कदाचिद्गोविन्ददर्शनं भविष्यतीत्याशङ्कायां
काकुः । अत एव हृष्यामि । तद्दर्शनजन्य आनन्दो मम कदाचिद्भविष्यतीत्यप्राप्याशंसेव 1
पश्यामि हृष्यामीति भविष्यत्सामीप्ये वर्तमानप्रयोगः । कीदृशम् । ब्रजसुन्दरीगणवृतं
गोपवधूकदम्बपरिवृतम् । ननु सपत्नीभिः परिवृतं दृष्ट्वा कथं ते हर्षो भविष्यतीत्यत
आह—मामिति । मामुद्रीक्ष्य दृष्ट्वा विलज्जितम् । पुनः कीदृशम् । अन्यवधूभिः
परिवृतोऽहमनया दृष्ट इति हेतोर्विषादसूचकं यत्स्मितं तदेव शुभ्रत्वादतिस्पृहणीयत्वाच्च सुधा
तया मुग्धं मनोहरमाननं मुखं यस्य । पुनः कीदृशम् । अनृजुः कुटिला भ्रूलता
यासामेतादृश्यो या बलव्यो गोपवध्वस्तासां वृन्दमुत्सारयत्येवंशीलं दृगन्तवीक्षितं नेत्रान्ते-
नावलोकितं यस्य तम् । मथ्यागतायां भिया दृगन्तचेष्टयान्यगोपीरपसारयतीत्यर्थः । पुनः
कीदृशम् । हस्तात्स्रस्तो विगलितो मद्दर्शनेन साध्वसवशात्स्खलितो विलासवंशः क्रीडा-
वेणुर्यस्य तम् । पुनः कीदृशम् । अतिशयेन स्वेदैरा गण्डस्थलं यस्य तम् । सर्वत्र मामु-
द्वीक्ष्येत्यस्य संबन्धः ॥ १० ॥ हे सखि, धैर्यमवलम्बस्व मिलिष्यत्येव त्वां हरिरित्याश्वासयन्तीं
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri