This page has been fully proofread once and needs a second look.

सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।

सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ सखि० ॥९॥
 
४९
 

 
अपि च । दरमुकुलिते ईषन्निमीलिते नयनसरोजे यस्य येन वा । एतच्च च्युतिकाल-

सूचकम् । उक्तं च भरते- ' -- "मूर्च्छना मीलनं चाक्ष्णोश्च्युतिकालस्य सूचकम् । सर्वमेत-

त्परिज्ञाय साधयेच्च स्वयं ततः ॥'" अपि च निःसहा असमर्था निपतिता शयन एव

तनुलता यस्याः । एतेन विपरीतसुरतं सूचितम् । तदुक्तं कोकेन – '-- "स्वेच्छया मिलि-

तवल्लभोऽथवा योषिदाचरति पूरुषायितम् । आदितो घटितयन्त्रमेव वा तं निपा
त्य
नरवद्विचेष्टते ॥ चक्रवद्भ्रमति कुञ्चितत्रिका भ्रामयेच्च जघनेऽथ तद्गते । सर्वतः कटि-

तटभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमुन्नतम् ॥'" एतेन च्युतिकालोत्तरावस्था सूचिता ।

तदुक्तं भरते – '-- "अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः । जाते च्युतिसुखे नार्या

विरामेच्छा च गम्यते ॥'" अपि च । मधुसूदनं मधुविनाशिनम् ।उदितमनोजम-

भ्युदितकामम् ॥ ८ ॥ अपि च । <pratika>श्रीजयदेवेति । </pratika>इदं गीतप्रतिपादितप्रमेय -

कव्युत्तम्भित वक्तृत्वेनोत्कण्ठितगोपवधूकथितं राधाकथितं सुखं वितनोतु । अर्थात्

गायतां शृण्वतां च । किं विशिष्टम् । श्रीजयदेवेन भणितम् । जयदेवभणितरूपमि-

त्यर्थः । श्रीजयदेवेति सर्वत्र श्रियः पद्मावत्या आराधको जयदेवः श्रीजयदेव इति

मध्यमपदलोपी समासः । पुनः किंभूतम् । अतिशयेन मधुरिपोर्निधुवनशीलं सुरतच-

रितं यत्र तत्तथेति । उत्कण्ठितेत्यादि । उत्कण्ठिता नायिका । विप्रलम्भः शृङ्गारः । अत्र
 
-
 
-
 

 
निःसहाऽसमर्था अत एव किसलयशयने निपतिता तनुलता यस्यास्तया । अनेन सुरता-

न्तसमय उक्तः । तदुक्तम्- ' -- "अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः । जाते च्युतिसुखे

नार्या विरामेच्छा च जायते ॥'" इति । नन्वभिसारे विघ्नबाहुल्यात्कथमेतावान्क्रियाकलापः

संभविष्यतीत्यत आह -- <pratika>मधुसूदन मिति । </pratika>मधुनामानं दैत्यं सूदितवान् यस्तस्याभिसार-

विघ्ननिवारणे कियान्परिश्रम इति भावः । कीदृशं मधुसूदनम् । उदितस्तत्कालत्रुटितः

मुक्ताहारकाञ्चीगुणस्तस्य स्थानम् । पुनः सचन्दनं संजातपयोधर श्रोणी परिसर स्य
स्य
रशनादिना मल्लज्जितस्मितराधाया अङ्गविलोकनादिना पुनराविर्भूतो मनोज:जः कामो यस्य

तम् । तदुक्तम्–' -- "अधस्तने च्युते प्रीतिरुपचारैरुपस्कृता । सविश्रम्भकथायोगैस्तै रतिं

नयते पराम् ॥" इति । अत्रोत्कण्ठिता नायिका । तदुक्तम् – '-- "नैवागतः समुचितेष्वपि

वासरेषु प्राणेश्वरः स्वगुरुकार्यवशेन यस्याः । दुर्वारवृत्तविरहज्वरतापिताङ्गीमुत्कण्ठितां

वदति तां भरतः कवीन्द्रः ॥'" इति ॥ ८ ॥ <pratika>श्रीजयदेवेति ।</pratika> इदं जयदेवकविना भणितं

यदुत्कण्ठिताया गोपवध्वा राधिकायाः कथितं वचनं सुखं तनोतु विस्तारयतु पठतां

शृण्वतां च । कीदृशम् । मधुरिपोः श्रीकृष्णस्य निधुवनं सुरतक्रीडां शीलयतीत्येवंरूपम् ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri