2022-10-18 04:13:59 by ambuda-bot
This page has not been fully proofread.
सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ सखि० ॥९॥
४९
अपि च । दरमुकुलिते ईषन्निमीलिते नयनसरोजे यस्य येन वा । एतच्च च्युतिकाल-
सूचकम् । उक्तं च भरते- 'मूर्च्छना मीलनं चाक्ष्णोश्युतिकालस्य सूचकम् । सर्वमेत-
त्परिज्ञाय साधयेच्च स्वयं ततः ॥' अपि च निःसहा असमर्था निपतिता शयन एव
तनुलता यस्याः । एतेन विपरीतसुरतं सूचितम् । तदुक्तं कोकेन – 'स्वेच्छया मिलि-
तवल्लभोऽथवा योषिदाचरति पूरुषायितम् । आदितो घटितयन्त्रमेव वा तं निपाय
नरवद्विचेष्टते ॥ चक्रवद्रमति कुञ्चितत्रिका भ्रामयेच्च जघनेऽथ तद्गते । सर्वतः कटि-
तटभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमुन्नतम् ॥' एतेन च्युतिकालोत्तरावस्था सूचिता ।
तदुक्तं भरते – 'अङ्गे स्वेदः श्लथत्वं च केशवस्त्रादिसंवृतिः । जाते च्युतिसुखे नार्या
विरामेच्छा च गम्यते ॥' अपि च । मधुसूदनं मधुविनाशिनम् ।उदितमनोजम-
भ्युदितकामम् ॥ ८ ॥ अपि च । श्रीजयदेवेति । इदं गीतप्रतिपादितप्रमेय -
कव्युत्तम्भित वक्तृत्वेनोत्कण्ठितगोपवधूकथितं राधाकथितं सुखं वितनोतु । अर्थात्
गायतां शृण्वतां च । किं विशिष्टम् । श्रीजयदेवेन भणितम् । जयदेवभणितरूपमि-
त्यर्थः । श्रीजयदेवेति सर्वत्र श्रियः पद्मावत्या आराधको जयदेवः श्रीजयदेव इति
मध्यमपदलोपी समासः । पुनः किंभूतम् । अतिशयेन मधुरिपोर्निधुवनशीलं सुरतच-
रितं यत्र तत्तथेति । उत्कण्ठितेत्यादि । उत्कण्ठिता नायिका । विप्रलम्भः शृङ्गारः । अत्र
-
-
निःसहाऽसमर्था अत एव किसलयशयने निपतिता तनुलता यस्यास्तया । अनेन सुरता-
न्तसमय उक्तः । तदुक्तम्- 'अङ्गे स्वेदः लथत्वं च केशवस्त्रादिसंवृतिः । जाते च्युतिसुखे
नार्या विरामेच्छा च जायते ॥' इति । नन्वभिसारे विघ्नबाहुल्यात्कथमेतावान्क्रियाकलापः
संभविष्यतीत्यत आह — मधुसूदन मिति । मधुनामानं दैत्यं सूदितवान् यस्तस्याभिसार-
विघ्ननिवारणे कियान्परिश्रम इति भावः । कीदृशं मधुसूदनम् । उदितस्तत्कालत्रुटितः
मुक्ताहारकाञ्चीगुणस्तस्य स्थानम् । पुनः सचन्दनं संजातपयोधर श्रोणी परिसर स्य
रशनादिना मल्लज्जितस्मितराधाया अङ्गविलोकनादिना पुनराविर्भूतो मनोज: कामो यस्य
तम् । तदुक्तम्–'अधस्तने च्युते प्रीतिरुपचारैरुपस्कृता । सविश्रम्भकथायोगैस्तै रतिं
नयते पराम् ॥" इति । अत्रोत्कण्ठिता नायिका । तदुक्तम् – 'नैवागतः समुचितेष्वपि
वासरेषु प्राणेश्वरः स्वगुरुकार्यवशेन यस्याः । दुर्वारवृत्तविरहज्वरतापिताङ्गीमुत्कण्ठितां
वदति तां भरतः कवीन्द्रः ॥' इति ॥ ८ ॥ श्रीजयदेवेति । इदं जयदेवकविना भणितं
यदुत्कण्ठिताया गोपवध्वा राधिकायाः कथितं वचनं सुखं तनोतु विस्तारयतु पठतां
शृण्वतां च । कीदृशम् । मधुरिपोः श्रीकृष्णस्य निधुवनं सुरतक्रीडां शीलयतीत्येवंरूपम् ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri