This page has been fully proofread once and needs a second look.

गीतगोविन्दकाव्यम्
 
[ सर्ग: २
 
चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् ।

मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ सखि० ॥ ७ ॥

 
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
 

निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ सखि० ॥८॥
 

 
म्बननखक्षतताडनानि संमर्दनं प्रसरणं खलु शिक्षितानि । जिह्वाप्रवेशरसनग्रहणं

तु नाभीक्षोभं रतं वदति बाह्यरतानि तज्ज्ञः'" इति ॥ ६ ॥ अपि च । <pratika>चरणेति ।
</pratika>
चरणयोः रणितौ शब्दितौ मणिनूपुरौ यस्याः । ग्राम्याख्यबन्धसूचनायोक्तमिदम् ।

तदुक्तं रसिकसर्वखे—'स्वे -- "उत्तानितायाः सुरते यदोरू स्त्रीशीर्षकान्तोरुगतौ भवेताम् ।

ग्राम्यं तदा स्यात्कटितो यदास्या बहिर्भवेतां किल नागराख्यम् ॥'" परिपूरितः संपू-

र्णतां नीतः सुरतवितान: सुखावसरः प्रस्तावो वा येन । अपि च । मुखरा वाचाला

विश्शृङ्खला काञ्ची यस्याः । अथ वा '"सुखदविशृङ्खलमेखलया'" इति पाठः । अपि च ।

सकचग्रहं केशग्रहणेन सहितं चुम्बनदानं यस्य ॥ ७ ॥ अपि च । <pratika>रतिसुखे ति
ति ।</pratika>
रतिसुखसमये द्वयोरेककालं रेतःकणक्षरणसमये यो रसः तदेकाग्रीभावस्तेन अलसा

मन्थरा । एतेन च्युतिसुखसान्निध्यं सूचितम् । उक्तं च रसिकसर्वस्वे — '-- "मुहुश्च स्वज-

नाश्लेषः सीत्कारो वीतलज्जता । अङ्गावधूननं नार्याश्च्युतिसान्निध्यसूचकम्'"
 

 

 
स्त्रयोः'" इति विश्वः । '"चिकुरः कुन्तलो वाल: कच:लः कचः केश:शः शिरोरुहः'" इत्यमरः ॥ ६ ॥

एतावत्पर्यन्तं चुम्बना लिङ्गनादिना सप्तविधं बाह्यरतमुक्तम् । संप्रति बन्धनाख्यमष्टमरतमाह-
--
<pratika>
चरणेति । </pratika>चरणयो रणितौ शब्दायमानौ मणिखचितौ नूपुरौ यस्यास्तया । एतच्च

आमरिकं नाम विपरीतरताभिप्रायेणोक्तन्म् । तदुक्तं रतिरहस्ये – '-- "चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका

भ्रामरं नृजघने समुच्छ्रिते'" इति । कीदृशम् । परिपूरितं सुरतवितानं रतिविस्तारो

येन तम् । अनेन नायककर्तृका बन्धाः कथिताः । भ्रामरकबन्धश्रान्तां विदित्वा किस-

लयशयनस्थितां मां स्वयमपि रमयिष्यतीति भावः । कीदृश्या । पूर्वं मुखरा शब्दायमाना

पश्चाद्विशृङ्खला त्रुटितगुणा मेखला काञ्ची यस्यास्तया । अनेन प्रेङ्खोल्लिखितनामकं

विपरीतरतमुक्तम् । तदप्युक्तं पुरुषायितप्रकरणे – 'ख-- "स्वजघनमेव दोलायमानं सर्वत्र

भ्रामयेदिति प्रेङ्खोल्लिखितम्'" इति । तत्र सर्वत्रशब्दो मनोरमाकारेण व्याख्यातः मध्यात्पूर्व-

पश्चिमभागे दक्षिणोत्तरभागे चेति । रहस्ये – '-- "सर्वतः कटितटभ्रमो यदि प्रेङ्खपूर्वमिदमुक्त-

मूलितम्'" इति । अत्रापि सर्वशब्दार्थः स एव । कीदृशं तम् । सकचग्रहं केशग्रहणसहितं

चुम्बनदानं यस्य तम् । केशग्रहणपूर्वकचुम्बनं विपरीत मेवोक्तम् । तदुक्तम् – '-- "शृङ्गारे

चुम्बनं कार्यं पुंसालिङ्गनपूर्वकम् । विपरीतरते नार्या सकचग्रहचुम्बनम् ॥" इति । '"मेखला

खड्गबन्धः स्यात्काञ्ची शैलनितम्बयोः'" इति विश्वः ॥ ७ ॥ पुनः कीदृश्या मया -
-
<pratika>
रतिसुखेति । </pratika>रतिसुखसमये सुरतसुखप्राप्तिकाले लोकोत्तरां काष्ठां प्राप्तो यः संभोगशृङ्गा-

राख्यो रसस्तेनालसया मन्थरया । कीदृशं कृष्णम् । दर ईषन्मीलिते मुद्रिते नयनसरोजे

नेत्रकमले यस्य तम् । एतेन युगपदेव द्वयोरानन्दावाप्तिः सूचिता । तदुक्तं रतिर-

हस्ये— ' -- "मूर्च्छना मीलनं चाक्ष्णो श्च्युतिकालस्य लक्षणम्'" इति । पुनः कीदृश्या मया ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
L