This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्ग: २
 
चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् ।
मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ सखि० ॥ ७ ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
 
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ सखि० ॥८॥
 
म्बननखक्षतताडनानि संमर्दनं प्रसरणं खलु शिक्षितानि । जिह्वाप्रवेशरसनग्रहणं
तु नाभीक्षोभं रतं वदति बाह्यरतानि तज्ज्ञः' इति ॥ ६ ॥ अपि च । चरणेति ।
चरणयोः रणितौ शब्दितौ मणिनूपुरौ यस्याः । ग्राम्याख्यबन्धसूचनायोक्तमिदम् ।
तदुक्तं रसिकसर्वखे—'उत्तानितायाः सुरते यदोरू स्त्रीशीर्षकान्तोरुगतौ भवेताम् ।
ग्राम्यं तदा स्यात्कटितो यदास्या बहिर्भवेतां किल नागराख्यम् ॥' परिपूरितः संपू-
र्णतां नीतः सुरतवितान: सुखावसरः प्रस्तावो वा येन । अपि च । मुखरा वाचाला
विश्शृङ्खला काञ्ची यस्याः । अथ वा 'सुखदविशृङ्खलमेखलया' इति पाठः । अपि च ।
सकचग्रहं केशग्रहणेन सहितं चुम्बनदानं यस्य ॥ ७ ॥ अपि च । रतिसुखे ति
रतिसुखसमये द्वयोरेककालं रेतःकणक्षरणसमये यो रसः तदेकाग्रीभावस्तेन अलसा
मन्थरा । एतेन च्युतिसुखसान्निध्यं सूचितम् । उक्तं च रसिकसर्वस्वे — 'मुहुश्च खज-
नाश्लेषः सीत्कारो वीतलज्जता । अङ्गावधूननं नार्याश्च्युतिसान्निध्यसूचकम्' ॥
 

 
स्त्रयोः' इति विश्वः । 'चिकुरः कुन्तलो वाल: कच: केश: शिरोरुहः' इत्यमरः ॥ ६ ॥
एतावत्पर्यन्तं चुम्बना लिङ्गनादिना सप्तविधं बाह्यरतमुक्तम् । संप्रति बन्धनाख्यमष्टमरतमाह-
चरणेति । चरणयो रणितौ शब्दायमानौ मणिखचितौ नूपुरौ यस्यास्तया । एतच्च
आमरिकं नाम विपरीतरताभिप्रायेणोक्तन् । तदुक्तं रतिरहस्ये – 'चक्रवद्भमति कुञ्चिताङ्घ्रिका
भ्रामरं नृजघने समुच्छ्रिते' इति । कीदृशम् । परिपूरितं सुरतवितानं रतिविस्तारो
येन तम् । अनेन नायककर्तृका बन्धाः कथिताः । भ्रामरकबन्धश्रान्तां विदित्वा किस-
लयशयनस्थितां मां स्वयमपि रमयिष्यतीति भावः । कीदृश्या । पूर्व मुखरा शब्दायमाना
पश्चाद्विशृङ्खला त्रुटितगुणा मेखला काञ्ची यस्यास्तया । अनेन प्रेङ्खोल्लिखितनामकं
विपरीतरतमुक्तम् । तदप्युक्तं पुरुषायितप्रकरणे – 'खजघनमेव दोलायमानं सर्वत्र
भ्रामयेदिति प्रेङ्खोल्लिखितम्' इति । तत्र सर्वत्रशब्दो मनोरमाकारेण व्याख्यातः मध्यात्पूर्व-
पश्चिमभागे दक्षिणोत्तरभागे चेति । रहस्ये – 'सर्वतः कटितटभ्रमो यदि प्रेङ्खपूर्वमिदमुक्त-
मूलितम्' इति । अत्रापि सर्वशब्दार्थः स एव । कीदृशं तम् । सकचग्रहं केशग्रहणसहितं
चुम्बनदानं यस्य तम् । केशग्रहणपूर्वकचुम्बनं विपरीत मेवोक्तम् । तदुक्तम् – 'शृङ्गारे
चुम्बनं कार्यं पुंसालिङ्गनपूर्वकम् । विपरीतरते नार्या सकचग्रहचुम्बनम् ॥" इति । 'मेखला
खड्गबन्धः स्यात्काञ्ची शैलनितम्बयोः' इति विश्वः ॥ ७ ॥ पुनः कीदृश्या मया -
रतिसुखेति । रतिसुखसमये सुरतसुखप्राप्तिकाले लोकोत्तरां काष्ठां प्राप्तो यः संभोगशृङ्गा-
राख्यो रसस्तेनालसया मन्थरया । कीदृशं कृष्णम् । दर ईषन्मीलिते मुद्रिते नयनसरोजे
नेत्रकमले यस्य तम् । एतेन युगपदेव द्वयोरानन्दावाप्तिः सूचिता । तदुक्तं रतिर-
हस्ये— 'मूर्च्छना मीलनं चाक्ष्णो युतिकालस्य लक्षणम्' इति । पुनः कीदृश्या मया ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
L