This page has been fully proofread once and needs a second look.

<bold>प्रारम्भिक-प्रस्तावना.</bold>
 
श्रीमहाकविजयदेवविरचितं मृदुलपदसरणिललितं रुचिरार्थसंहतिबहुलं सरसराग-
निबद्धसुप्रबन्धप्रधानं शृङ्गाररसभाण्डागारसदृशमिदं गीतगोविन्दकाव्यं कैश्चिद्भूयो मुद्र-
यित्वा प्रकाशितमपि सहृदयाह्लादिन्या साहित्यसंगीतविवेकप्रचुरया टीकया समेतं
केनापि प्रकाशितं नैव दृश्यते । अतस्तद्रसध्वन्यलंकाररागतालादिलक्षणानुगतिद्यो-
तकेन टीकाद्वयेनालंकृत्य संप्रति रसिकजनविनोदाय प्रकाश्यते ।
 
अस्य गीतगोविन्दकाव्यस्य प्रणेतुर्जयदेवकवेर्देशकालादिकं जीवितवृत्तं चान्येषां
बहूनां कवीनामिव सम्यङ् न ज्ञायते । तथाप्यस्माभिर्यत्किंचिन्मधुकरवृत्त्या संकलितं
तदत्र विद्वत्कौतुकाय संगृह्यते ।
 
गीतगोविन्दकाव्यादेव यदस्य कवेः पितृनामादिकं लभ्यते तदेवम् -- जयदेवस्य
पितु[^१]र्नाम श्रीभोजदेव इति । मातुर्नाम राधादेवी रामादेवीति वा । पराशराभिधः
कोऽपि रसिकोऽस्य सुहृदासीत् । जयदेव[^२]कवेर्भार्याया नाम पद्मावतीति । उ[^३]मापतिधरः
शरणः, गोवर्धनाचार्यः, धोईकविराज इत्येते कवयो जयदेवसमकालीना आसन् ।
जयदेवस्य कुलवृत्तिग्राम: किन्दु[^४]बिल्वाख्य आसीदिति ।
 
जयदेवकविः परमः कृष्णभक्त आसीत् । अतो लोकेऽयं महासाधुत्वेन सर्वस्मिन्नपि
भरतखण्डे विख्यातो बभूव । एतद्विषयकमस्य चरितं श्रीमच्चन्द्रदत्तकृतभक्तमालाख्ये[^५]-
ग्रन्थे ३९ तमसर्गमारभ्य ४१ तमसर्गपर्यन्तं त्रिभिः सर्गैर्वर्णितमस्ति । तदत्र बाल-
बोधाय यथामूलमुपन्यस्यते । तद्यथा --
 
"पुनरने प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा जायते भक्तिर्वासुदेवे महात्मनि ॥
जगन्नाथपुरीप्रान्ते देशे चैवोत्कलाभिधे ।
बिन्दुबिल्व इति ख्यातो ग्रामो ब्राह्मणसंकुलः ॥
तत्रोत्कले द्विजो जातो जयदेव इति श्रुतः ।
विद्याभ्यासरतः शान्तः पुरुषोत्तमपूजकः ॥
 
[^१.] गीतगोविन्दस्थे "श्रीभोजदेव" इत्यादिपदे ( पृ० १७१ ) द्रष्टव्यम् ।

[^२.] गीतगोविन्दस्थैकोनविंशप्रबन्धस्यान्तिमपदस्य "जयति पद्मावतीरमणजयदेव" इत्यादि-
पाठान्तरदर्शनात् (पृ० १३३ ) भक्तमालाग्रन्थेऽपि तथैव कथनाच्च ।

[^३.] गीतगोविन्दस्थे "वाच: पल्लवयत्युमापतिधरः" इत्यादिपद्ये ( पृ० ९ ) द्रष्टव्यम् ।

[^४.] गीतगोविन्दस्थसप्तमप्रबन्धस्यान्तिमपदे ( पृ० ५८) "किन्दुबिल्वसमुद्रसंभवरोहि-
णीरमणेन" इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वदलस्य जयदेवकुलवृत्तिग्रामत्वेन
व्याख्यातत्वाच्च । भक्तमालाग्रन्थे तु "विन्दुबिल्व" इति पाठो दृश्यते ।

[^५.] अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराजश्रीकृष्णदासमहाशयैः स्वकीये श्रीवेङ्कटेश्वर-
मुद्रालये मुद्रयित्वा प्रकाशितः । तत उद्धृतमेतदध्यायत्रयम् ।