This page has been fully proofread once and needs a second look.

<bold>प्रारम्भिक-प्रस्तावना.</bold>
 
श्रीलक्ष्मीवर विचादर,
देवप्रयाग (गढवाले हिमालय )
 
व्यवस्थापक पं. चक्रधरजोशी
 
प्रारम्भिक प्रस्तावना.
 
-
 
श्री
महाकविजयदेव विरचितं मृदुलपदसरणिललितं रुचिरार्थ संहतिबहुलं सरसराग-

निबद्धसुप्रबन्धप्रधानं शृङ्गाररसभाण्डागार सदृश मिदं गीतगोविन्दकाव्यं कैश्चिद्भूयो मुद्र-

यित्वा प्रकाशितमपि सहृदयाहाह्लादिन्या साहित्य संगीत विवेकप्रचुरया टीकया समेतं

केनापि प्रकाशितं नैव दृश्यते । अतस्तद्रसध्वन्यलंकाररागताला दिलक्षणानुगतिद्यो-

तकेन टीकाद्वयेनालंकृत्य संप्रति रसिकजनविनोदाय प्रकाश्यते ।
 

 
अस्य गीतगोविन्दकाव्यस्य प्रणेतुर्जय देवकवेर्देशकालादिकं जीवितवृत्तं चान्येषां

बहूनां कवीनामिव सभ्म्यङ् न ज्ञायते । तथाप्यस्माभिर्यत्किंचिन्मधुकरवृत्त्या संकलितं

तदत्र विद्वत्कौतुकाय संगृह्यते ।
 

 
गीतगोविन्दकाव्यादेव यदस्य कवेः पितृनामादिकं लभ्यते तदेवम् - जयदेवस्य
- जयदेवस्य
पितु[^१]र्नाम श्रीभोजदेव इति । मातुर्नाम राधादेवी रामादेवीति वा । पराशराभिधः

कोऽपि रसिकोऽस्य सुहृदासीत् । जयदेवैव[^२]कवेर्भार्याया नाम पद्मावतीति । उ[^३]मापतिधरः

शरणः, गोवर्धनाचार्यः, धोईकविराज इत्येते कवयो जयदेवसमकालीना आसन् ।

जयदेवस्य कुलवृत्तिग्राम: किन्दु[^४]बिल्वाख्य आसीदिति ।
 

 
जयदेवकविः परमः कृष्णभक्त आसीत् । अतो लोकेऽयं महासाधुत्वेन सर्वस्मिन्नपि

भरतखण्डे विख्यातो बभूव । एतद्विषयकमस्य चरितं श्रीमच्चन्द्रदत्तकृत भक्तमालाख्येंये[^५]-

ग्रन्थे ३९ तमसर्गमारभ्य ४१ तमसर्गपर्यन्तं त्रिभिः सर्गैर्वर्णितमस्ति । तदत्र बाल-

बोधाय यथामूलमुपन्यस्यते । तद्यथा
 
--
 
"पुनरने प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् ।

यच्छ्रुत्वा जायते भक्तिर्वासुदेवे महात्मनि ॥

जगन्नाथपुरीप्रान्ते देशे चैवोत्कलाभिधे ।

बिन्दुबिल्व इति ख्यातो ग्रामो ब्राह्मणसंकुलः ॥

तत्रोत्कले द्विजो जातो जयदेव इति श्रुतः ।

विद्याभ्यासरतः शान्तः पुरुषोत्तमपूजकः ॥
 

 
[^
.] गीतगोविन्दस्थे '"श्रीभोजदेव'" इत्यादि पदे ( पृ० १७१ ) द्रष्टव्यम् ।
 

[^
.] गीतगोविन्द स्थैकोनविंशप्रबन्धस्यान्तिमपदस्य '"जयति पद्मावतीरमणजयदेव'" इत्यादि-

पाठान्तरदर्शनात् (पृ० १३३ ) भक्तमालाग्रन्थेऽपि तथैव कथनाच्च ।
 

[^
.] गीतगोविन्दस्थे '"वाच: पल्लवयत्युमापतिधरः'" इत्यादिपद्ये ( पृ० ९ ) द्रष्टव्यम् ।

[^
.] गीतगोविन्दस्थसप्तमप्रबन्धस्यान्तिमपदे ( पृ० ५८) '"किन्दुबिल्वसमुद्रसंभवरोहि-

णीरमणेन'" इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वदलस्य जयदेवकुलवृत्तिग्रामत्वेन

व्याख्यातत्वाच्च । भक्तमालाग्रन्थे तु '"विन्दुबिल्व'" इति पाठो दृश्यते ।
 

[^
.] अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराजश्रीकृष्णदास महाशयैः स्वकीये श्रीवेङ्कटेश्वर-

मुद्रालये मुद्रयित्वा प्रकाशितः । त उद्धृतमेतदध्यायत्रयम् ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri