This page has been fully proofread once and needs a second look.

सर्ग: २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ४७
 
कोकिलकलरवकूजितया जितमनसिजतन्त्र विचारम् ।

श्
लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ सखि० ॥६॥
 

 
पङ्ख्क्त्या सुन्दरकपोलम् । अनेन सात्त्विकविकाराविर्भावः सूचितः । यदुक्तं भरते-
'
--
"
स्मरणे संगमे चैव प्रियस्यालोकने तथा । हेतुत्रयं समासाद्य सात्त्विकः संप्रवर्तते ॥

स्वेदः कम्पोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्य मश्रुप्रलयावित्यष्टौ सात्त्विका

मताः'" ॥ अपि च श्रमजलेन गमनायासजनितेन स्वेदेन सकलं सशोभं शरीरं यस्याः

सा । श्रमजलसिक्तमिति वा पाठः । श्रमजलशकलानि स्वेदबिन्दवः कलेवरे यस्या

इति वा । सकलशब्दः संपूर्णपर्यायो वा । अपि च । उत्तमकाममदादतिलोलम्

अतिसतृष्णम् ॥ ५ ॥ अपि च । <pratika>कोकिलेति । </pratika>कोकिलकलरवयोः कूजितमिव

कूजितं यस्याः । कलरवशब्दः पारावतपर्यायः । एतदपि सुरताधिकारायोक्तम् ।

तदुक्तं रसिकसर्वखे—'स्वे -- "दात्यूहलावकमयूरकपोतहंसपारावतादिरुतवद्ध्वनितं रतान्ते ।

तन्मिश्रनिःश्वसितस्रीसीत्कृतहानिनादैः संयोजयेन्मदनचुम्बनमैथुनादौ" ॥ इति । अपि

च । जितो न्यक्कृतः कामशास्त्रविचारो येन । वात्स्यायनादिभ्योऽपि कुशल इत्यर्थः ।

अपि च । श्लथकुसुमा आकुला व्यस्ताः कुन्तला यस्याः सा । अपि च नखैर्विलिखितो-

ऽङ्कितो निबिडः स्तनभारो येन । एतेन बाह्यरतमुक्तम् । तदुक्तं भरते —'-- "आश्लेषचु-

 
लोला ख्यातं रसज्ञैरवघृष्टसंज्ञम् ॥'" इति । कीदृशम् । पुलकावल्या रोमाञ्चपङ्क्त्या ललितौ

मनोहरौ कपोलौ यस्य तम् । पुनः कीदृश्या मया । मदनचिन्तया जनितं जलं प्रस्वेदस्तेन

सिक्तमार्द्रं कलेवरं यस्यास्तया । क्वचित् '"श्रमजलसक्त कलेवरये' ति सुगमः पाठः । कीदृशं

तम् । वर उत्कृष्टो यो मदो हर्षस्तेनातिशयेन लोलं चञ्चलम् । '"काये च कलेक्रम्'
वरम्"
इति विश्वः ॥ ५ ॥ पुनः कीदृश्या मया । <pratika>कोकिलेति । </pratika>कोकिलस्य कलोऽव्य-

क्तमधुरो यो रवः शब्दस्तद्वत्कूजितं शब्दितं यस्यास्तया । अनेन कूजिताख्यं बाह्यरत-

मुक्तम् । तदुक्तं पञ्चसायके– ' -- "पिकशिखिकलहंसप्रायपक्षिव्रजानां स्वरितमनुकरोतीत्यङ्गना

मन्मथार्ता । मुखदशनपिबन्ती (?) तत्कवीन्द्रा वदन्ति स्नितमिति समा सा चित्रसं-

भोगकाले ॥'" इति । ननु वात्स्यायनादिशास्त्रेऽन्य एव क्रम उक्तः । तदुक्तम्– ' -- "आश्लेषं

प्रथमं कुर्याद्द्वितीयं चुम्बनं तथा । तृतीयं नखदानं च दंष्ट्राघातं चतुर्थकम् । पञ्चमं क्षेपणं

प्रोक्तं षष्ठं प्रहरणं तथा । सप्तमं कण्ठशब्दश्च बन्धाख्यं चाष्टमं रतम् ॥'" इति । तथा

चात्र कण्ठशब्दस्य सप्तमरतस्याग्रे वक्ष्यमाणनखदानादिरतात्प्राक्करणे श्रीकृष्णस्य रसिक-

ताभङ्गः स्यादित्यत आह -- <pratika>जितेति ।</pratika> जितोऽवज्ञातो मनसिजतन्त्रस्य कामशास्त्रस्य

विचारो येन तम् । अयं भावः । चतुःषष्टिकलाकुशलस्यापि परमस्त्रीनायकस्य जगदीश्वरस्य

स्वानुकूलोत्तमनायिकासंनिधौ रसमग्नतया क्रमस्मरणाभावान्न दोषः । तदुक्तम् —'-- "रतिच-

क्रप्रवृत्तस्य नैव शास्त्रं न च क्रमः'" इति । पुनः कीदृश्या । लथा:श्लथाः केशग्रहणपूर्वक चु-
म्व

म्ब
नादिपानेन शिथिलाः कुसुमैराकुला व्याप्ताश्च कुन्तला यस्यास्तया । नखेन लिखितः

क्षतयुक्तः कृतो घनस्तनभारो येन तम् । अत्र लिखितपदोपादानात्पङ्कजपत्राख्यं नख-

दानमुक्तम् । तदप्युक्तं पञ्चसायके – '-- "अत्यूर्ध्वमेकं स्फुरितोर्ध्वरेखं प्राहुः क्षतं पङ्कजपत्रसं-

ज्ञ
म् । दोर्मूलनामिभिस्तनवक्षसंधावित्यूर्ध्वयोगं मनुते महेशः ॥'" इति । 'त"तन्त्रं प्रधानशा-
-
 

 
-
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri