This page has not been fully proofread.

सर्ग: २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ४७
 
कोकिलकलरवकूजितया जितमनसिजतन्त्र विचारम् ।
लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ सखि० ॥६॥
 
पङ्ख्या सुन्दरकपोलम् । अनेन सात्त्विकविकाराविर्भावः सूचितः । यदुक्तं भरते-
'स्मरणे संगमे चैव प्रियस्यालोकने तथा । हेतुत्रयं समासाद्य सात्त्विकः संप्रवर्तते ॥
स्वेदः कम्पोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्य मश्रुप्रलयावित्यष्टौ सात्त्विका
मताः' ॥ अपि च श्रमजलेन गमनायासजनितेन स्वेदेन सकलं सशोभं शरीरं यस्याः
सा । श्रमजलसिक्तमिति वा पाठः । श्रमजलशकलानि स्वेदबिन्दवः कलेवरे यस्या
इति वा । सकलशब्दः संपूर्णपर्यायो वा । अपि च । उत्तमकाममदादतिलोलम्
अतिसतृष्णम् ॥ ५ ॥ अपि च । कोकिलेति । कोकिलकलरवयोः कूजितमिव
कूजितं यस्याः । कलरवशब्दः पारावतपर्यायः । एतदपि सुरताधिकारायोक्तम् ।
तदुक्तं रसिकसर्वखे—'दात्यूहलावकमयूरकपोतहंसपारावतादिरुतवद्धनितं रतान्ते ।
तन्मिश्रनिःश्वसितस्रीत्कृतहानिनादैः संयोजयेन्मदनचुम्बनमैथुनादौ ॥ इति । अपि
च । जितो न्यकृतः कामशास्त्रविचारो येन । वात्स्यायनादिभ्योऽपि कुशल इत्यर्थः ।
अपि च । श्लथकुसुमा आकुला व्यस्ताः कुन्तला यस्याः सा । अपि च नखैर्विलिखितो-
ऽङ्कितो निबिडः स्तनभारो येन । एतेन बाह्यरतमुक्तम् । तदुक्तं भरते —'आश्लेषचु-
लोला ख्यातं रसज्ञैरवघृष्टसंशम् ॥' इति । कीदृशम् । पुलकावल्या रोमाञ्चपङ्कया ललितौ
मनोहरौ कपोलौ यस्य तम् । पुनः कीदृश्या मया । मदनचिन्तया जनितं जलं प्रस्वेदस्तेन
सिक्तमार्द्र कलेवरं यस्यास्तया । क्वचित् 'श्रमजलसक्त कलेवरये' ति सुगमः पाठः । कीदृशं
तम् । वर उत्कृष्टो यो मदो हर्षस्तेनातिशयेन लोलं चञ्चलम् । 'काये च कलेक्रम्'
इति विश्वः ॥ ५ ॥ पुनः कीदृश्या मया । कोकिलेति । कोकिलस्य कलोऽव्य-
क्तमधुरो यो रवः शब्दस्तद्वत्कूजितं शब्दितं यस्यास्तया । अनेन कूजिताख्यं बाह्यरत-
मुक्तम् । तदुक्तं पञ्चसायके– 'पिकशिखिकलहंसप्रायपक्षिव्रजानां स्वरितमनुकरोतीत्यङ्गना
मन्मथार्ता । मुखदशनपिबन्ती (?) तत्कवीन्द्रा वदन्ति स्वनितमिति समा सा चित्रसं-
भोगकाले ॥' इति । ननु वात्स्यायनादिशास्त्रेऽन्य एव क्रम उक्तः । तदुक्तम्– 'आश्लेषं
प्रथमं कुर्याद्वितीयं चुम्बनं तथा । तृतीयं नखदानं च दंष्ट्राघातं चतुर्थकम् । पञ्चमं क्षेपणं
प्रोक्तं षष्ठं प्रहरणं तथा । सप्तमं कण्ठशब्दश्च बन्धाख्यं चाष्टमं रतम् ॥' इति । तथा
चात्र कण्ठशब्दस्य सप्तमरतस्याग्रे वक्ष्यमाणनखदानादिरतात्प्राक्करणे श्रीकृष्णस्य रसिक-
ताभङ्गः स्यादित्यत आह — जितेति । जितोऽवज्ञातो मनसिजतन्त्रस्य कामशास्त्रस्य
विचारो येन तम् । अयं भावः । चतुःषष्टिकलाकुशलस्यापि परमस्त्रीनायकस्य जगदीश्वरस्य
स्वानुकूलोत्तमनायिकासंनिधौ रसमग्नतया क्रमस्मरणाभावान्न दोषः । तदुक्तम् —'रतिच-
क्रप्रवृत्तस्य नैव शास्त्रं न च क्रमः' इति । पुनः कीदृश्या । लथा: केशग्रहणपूर्वक चु-
म्वनादिपानेन शिथिलाः कुसुमैराकुला व्याप्ताश्च कुन्तला यस्यास्तया । नखेन लिखितः
क्षतयुक्तः कृतो घनस्तनभारो येन तम् । अत्र लिखितपदोपादानात्पङ्कजपत्राख्यं नख-
दानमुक्तम् । तदप्युक्तं पञ्चसायके – 'अत्यूर्ध्वमेकं स्फुरितोर्ध्वरेखं प्राहुः क्षतं पङ्कजपत्रसं-
शम् । दोर्मूलनामिस्तनवक्षसंधावित्यूर्ध्वयोगं मनुते महेशः ॥' इति । 'तत्रं प्रधानशा-
-
 

 
-
 
-
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri