This page has been fully proofread once and needs a second look.

2
 
गीतगोविन्दकाव्यम्
 
किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
 

कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ सखि० ॥ ४ ॥

 
अलसनिमीलितलोचनया पुलकावलिललितकपोलम्
 

 

श्रमजलस[^१]कलकलेवरया वरमदनमदातिलोलम् ॥ सखि० ॥५॥
 

 
[ सर्ग: २
 

 

 
॥ ३ ॥ अपि च । <pratika>किसलयेति । </pratika>किसलयरचिते शयने निवेशितया । '"सङ्केत-

तल्पेऽभिमुखोपविष्टां गाढं पतिः श्लिष्यति सापि कान्तम् । अन्योन्यगात्रे विशतीव

रागाद्द्वन्द्वं तदाकृष्टजलाभिधानम् ॥'" अपि च ममैवोरसि चिरं शयानम् । एतच्चालि-

ङ्गनभेदापेक्षयोक्तम् । तथा च कोकोक्तम् – '-- "असकृदतनुगाढाश्लेषलीलां वितन्वञ्ज-

नितजघनबाहुव्यत्ययं स्पर्धते तम् । मिथुनमथ मिथोऽङ्गे लीयते निस्तरङ्गं निगदति

तिलपूर्वं तण्डुलं तन्मुनीन्द्रः" ॥ अपि च । कृते परिरम्भणचुम्बने यया सा । एत-

दप्यालिङ्गनभेदापेक्षयोक्तम् ॥ '"जघनकलितकान्तश्रोणिरथ्योपरिष्टाद्व्रजति यदिह नारी

स्रुस्तकेशोत्तरीया । करजरदनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषणं

तन्मुनीन्द्रः" ॥ अपि च आश्लिष्य कृतमधरपानं येन । अत्रायं भावः -'- "अधरद-

शनजिह्वापानमालिङ्ग्य कुर्यान्नयनवदनपादैश्चेति जिह्वाप्रवारम् । ग्रहणमथ विदध्या-

द्स्त्रकेशस्तनोरःकुचयुगभगदेशे मर्दनं चोरुयुग्मे'" इति ॥ ४ ॥ अपिच । <pratika>अलसेति ।
</pratika>
अलसे च ते निमीलिते च तादृशे लोचने यस्याः सा । एतेनालिङ्गककाम विकारः

सूचितः । तथा च नायिकालक्षणे – '-- "यत्र मूर्धानमारभ्य पादपर्यन्ततः क्रियाः ।

अङ्गेन विहिता यस्यास्तदालिङ्गकमुच्यते" ॥ अपि च । पुलकावल्या रोमाञ्च-

 
चटु प्रिये वाक्ये'" इति कोशः । '"जघनं कटेरधोभाग'" इति हारावलिः ॥ ३ ॥ पुनः

कीदृश्या मया । <pratika>किसलयशयनेति ।</pratika> किसलयशयने नवपल्लवशय्यायां निवेशितया ।

कीदृशं तम् । चिरं बहुकालं व्याप्य ममैवोरसि शयानं सुप्तम् । एतेनालिङ्गनविशेषं

क्षीरनीराख्यमुक्तम् । तल्लक्षणं च पञ्चसायके – '-- "गात्रोपरिष्टादथ तस्य मध्ये संलीयते

यन्मिथुनं शरीरम् । कामाभिमानाक्षतपूर्णचेष्टं तत्क्षीरनीराख्यमिदं प्रदिष्टम् ॥" इति। कीदृश्या

मया । कृते परिरम्भणचुम्बने यया तादृश्या । एतच्च जघनोपश्लेषरूपालिङ्गनाभिप्रायेण ।

तदुक्तम्- --' -- "जघनकलितकान्त श्रोणिरङ्गोपरिष्टाद्व्रजति यदिह नारी स्रुस्तकेशोत्तरीया । करजर-

दनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषमेनं मुनीन्द्रः ॥'" इति । चुम्बनमपि

प्रकृते समौष्ठाख्यं बोध्यम् । तदुक्तं पञ्चसायके — '-- "ओष्ठेन कान्तस्य मुखौष्ठयुग्मं निपीड्य

जिहाह्वाञ्चिततालुभागम् । चुम्बोत्सवं नृत्यति यत्र नारी प्रोक्तं समौष्ठं कविभिः पुराणैः ॥'
"
इति । कीदृशं कृष्णम् । परिरभ्यालिङ्ग्य कृतं मदीयाधरपानं येन तादृशम् । अनेन

लालाटिकमुक्तम् । उक्तं च — '-- "अन्योन्यसंसक्तमुखं कपोलं नेत्रं ललाटं हृदयं च बाहुम् ।

सानन्दभावं श्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति ॥'" इति । '"पल्लवोऽस्त्री किस-

लयं'" इत्यमरः ॥ ४ ॥ पुनः कीदृश्या । <pratika>अलसेति ।</pratika> अलसे आलस्ययुक्ते अतएव निमी-

लिते लोचने यया । अत्र निमीलितमित्युपादानादवघृष्टाख्यचुम्बनमुक्तम् । उक्तं च-
'
--
"
हस्तेन नेत्रे च निमील्य भर्तुः संमीलिताक्षी वदने स्वजिह्वाम् । निक्षिप्य च क्रीडति यत्र

 
[^
'.] "सिक्तकलेवरया'" इति पाठः ।
 
.
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri