This page has not been fully proofread.

2
 
गीतगोविन्दकाव्यम्
 
किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
 
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ सखि० ॥ ४ ॥
अलसनिमीलितलोचनया पुलकावलिललितकपोलम्
 

 
श्रमजलसकलकलेवरया वरमदनमदातिलोलम् ॥ सखि० ॥५॥
 

 
[ सर्ग: २
 

 
॥ ३ ॥ अपि च । किसलयेति । किसलयरचिते शयने निवेशितया । 'सङ्केत-
तल्पेऽभिमुखोपविष्टां गाढं पतिः श्लिष्यति सापि कान्तम् । अन्योन्यगात्रे विशतीव
रागाद्दन्द्वं तदाकृष्टजलाभिधानम् ॥' अपि च ममैवोरसि चिरं शयानम् । एतच्चालि-
ङ्गनभेदापेक्षयोक्तम् । तथा च कोकोक्तम् – 'असकृदतनुगाढाश्लेषलीलां वितन्वञ्ज-
नितजघनबाहुव्यत्ययं स्पर्धते तम् । मिथुनमथ मिथोऽङ्गे लीयते निस्तरङ्गं निगदति
तिलपूर्वं तण्डुलं तन्मुनीन्द्रः ॥ अपि च । कृते परिरम्भणचुम्बने यया सा । एत-
दप्यालिङ्गनभेदापेक्षयोक्तम् ॥ 'जघनकलितकान्तश्रोणिरथ्योपरिष्टाजति यदिह नारी
स्रुस्तकेशोत्तरीया । करजरदनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपश्लेषणं
तन्मुनीन्द्रः ॥ अपि च आश्लिष्य कृतमधरपानं येन । अत्रायं भावः -'अधरद-
शनजिह्वापानमालिङ्ग्य कुर्यान्नयनवदनपादैश्चेति जिह्वाप्रवारम् । ग्रहणमथ विदध्या-
द्धस्त्रकेशस्तनोरःकुचयुगभगदेशे मर्दनं चोरुयुग्मे' इति ॥ ४ ॥ अपिच । अलसेति ।
अलसे च ते निमीलिते च तादृशे लोचने यस्याः सा । एतेनालिङ्गककाम विकारः
सूचितः । तथा च नायिकालक्षणे – 'यत्र मूर्धानमारभ्य पादपर्यन्ततः क्रियाः ।
अङ्गेन विहिता यस्यास्तदालिङ्गकमुच्यते ॥ अपि च । पुलकावल्या रोमाञ्च-
चटु प्रिये वाक्ये' इति कोशः । 'जघनं कटेरधोभाग' इति हारावलिः ॥ ३ ॥ पुनः
कीदृश्या मया । किसलयशयनेति । किसलयशयने नवपलवशय्यायां निवेशितया ।
कीदृशं तम् । चिरं बहुकालं व्याप्य ममैवोरसि शयानं सुप्तम् । एतेनालिङ्गनविशेषं
क्षीरनीराख्यमुक्तम् । तल्लक्षणं च पञ्चसायके – 'गात्रोपरिष्टादथ तस्य मध्ये संलीयते
यन्मिथुनं शरीरम् । कामाभिमानाक्षतपूर्णचेष्टं तत्क्षीरनीराख्यमिदं प्रदिष्टम् ॥" इति। कीदृश्या
मया । कृते परिरम्भणचुम्बने यया तादृश्या । एतच्च जघनोपश्लेषरूपालिङ्गनाभिप्रायेण ।
तदुक्तम्- --'जघनकलितकान्त श्रोणिरङ्गोपरिष्टाजति यदिह नारी स्रुस्तकेशोत्तरीया । करजर-
दनकृत्यं चुम्बनं वा विधित्सुः कलयति जघनोपलेषमेनं मुनीन्द्रः ॥' इति । चुम्बनमपि
प्रकृते समौष्ठाख्यं बोध्यम् । तदुक्तं पञ्चसायके — 'ओष्ठेन कान्तस्य मुखौष्ठयुग्मं निपीड्य
जिहाञ्चिततालुभागम् । चुम्बोत्सवं नृत्यति यत्र नारी प्रोक्तं समौष्ठं कविभिः पुराणैः ॥'
इति । कीदृशं कृष्णम् । परिरभ्यालिङ्ग्य कृतं मदीयाधरपानं येन तादृशम् । अनेन
लालाटिकमुक्तम् । उक्तं च — 'अन्योन्यसंसक्तमुखं कपोलं नेत्रं ललाटं हृदयं च बाहुम् ।
सानन्दभावं श्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति ॥' इति । 'पल्लवोऽस्त्री किस-
लयं' इत्यमरः ॥ ४ ॥ पुनः कीदृश्या । अलसेति । अलसे आलस्ययुक्ते अतएव निमी-
लिते लोचने यया । अत्र निमीलितमित्युपादानादवघृष्टाख्यचुम्बनमुक्तम् । उक्तं च-
' हस्तेन नेत्रे च निमील्य भर्तुः संमीलिताक्षी वदने स्वजिह्वाम् । निक्षिप्य च क्रीडति यत्र
१ 'सिक्तकलेवरया' इति पाठः ।
 
.
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri