2022-10-25 08:31:03 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ सखि० ॥३॥
सङ्गमकुले रत्युत्पाताद्युपप्लवे । चौरिकयाभिसारः स्यात्स्वदारानिह रक्षयेत्" ॥ निशि-
रात्रौ । अपि च किंभूतम् । रहसि गुप्तस्थाने निलीय तिरोभूय वसन्तम् । अपि च किंभू-
तया । चकितेन विलोकिताः सकला दिशो यया सा । कुत्र कृष्णो वसतीति गवेषि-
तुमभिसरन्तीं सख्यो मां मा द्राक्षुरिति लज्जया त्रासोत्कम्पेनेति । अपि किंभूतम् । रत्यु-
त्साहवशेन हसन्तम् ॥ २ ॥ अपि च । <pratika>प्रथमेति ।</pratika> उपभुक्तचरेऽपि हरौ प्रथमसमा-
गम इव लज्जितया तत्कालीनाश्चेष्टाः कुर्वन्त्या वा । बहुकालान्तरित मिलितेन प्रथम-
समागमता अपि । किंभूतम् । पटुचाटुशतैरनुकूलं सान्त्वनक्षम प्रियवचनशतैरनु-
नयपरम् । एतदुक्तं भवति– '-- "प्रथममिह हि देयं पूगपुष्पादिकं स्यान्मृदुमधुरवचोभि-
र्योजयेत्संनिधाने । करतलमथ गात्रे भ्रामयन्शश्वदस्याश्छुरितमुदरपृष्ठे मन्दमाश्लिष्य
दद्यात् ॥'" प्रथमसमागमे कामिन्यो लजन्त्यो मानमावहन्ति । तथा च - –- "श्लिष्टः कण्ठे
किमिति न मया मूढया प्राणनाथश्चम्बत्यस्मिन्वदनविकृतिः किं कृता किं न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते
रसज्ञा ॥'" इति भरतः ॥ अपि किंभूतया । अतएव मृदु मधुरं यथा स्यात्तथा
स्मितपूर्वं भाषणं यस्याः सा तया । अपि किंभूतम् । शिथिलीकृतजघनदुकूलं श्लथीकृतं
जघनस्थितं पट्टवस्त्रं वा । अन्तर्भावितणिजर्थत्वात् श्लथीकरणे सङ्गमस्य हेतुत्वम् । संग-
मादेव श्लथमभवदिति । तदुक्तं भरते– '-- "कान्ते तल्पमुपागते शिथिलिता नीवी स्वयं
बन्धनाद्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बस्थितम् । एतावत्सखि वेद्मि केव-
लमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं च कीदृशमिति स्वल्पापि मे न स्मृतिः ॥"
।
चकितं यथा स्यादेवं विलोकिताः सकला दिशो यया तादृश्या । कुत्र कृष्णो निलीय तिष्ठतीति
कृत्वाभिसरन्तीं मां मा कश्चन पश्यत्विति च शङ्कितां पश्यत्येवेति च भावः । कीदृशं कृष्णम् ।
रतौ यो रभस उत्साहस्तद्युक्तो यो रसः शृङ्गाराख्यस्तैतेन हसन्तम् । क्रीडायां काल-
क्षेपासहिष्णुम् । तथात्मप्रकटनार्थं पुनः स्थितमपि मामियं न पश्यतीतिकृत्वाइहसन्तमिति
भावः ।'"निभृतं रह एकान्तम्'" इति धरणिः । '"रभसो वेग उत्साहः'" इत्यमरः ॥ २॥ पुनः
कीदृश्या मया ।<pratika प्रथमेति । </pratika>प्रथमसमागमलज्जितया । एवमवधार्याहमागता संप्रति
कथमेतस्याग्रे प्रकटयाम्यात्मानमिति लज्जाकारणम् । कीदृशं कृष्णम् । पटु नायिका प्रसाद नदक्षं
यच्चाटुशतं प्रियवचनशतं तेनानुकूलम् । पुनः कीदृश्या मया । मृदु कोमलं मधुरं
माधुर्यगुणयुक्तं भाषितं यस्यास्तया । तदीयचाटूक्तिभिरपहृतलज्जया । किंचित्स्मितभाषि-
तयेत्यर्थः । पुनः कीदृशं कृष्णम् । शिथिलीकृतं स्मितानुरागानुकूलां मां ज्ञात्वा श्लथीकृतं
जघनस्थितं दुकूलं पट्टवस्त्रं येन तादृशम् । अशेषनायकमणिश्रीकृष्णदर्शनेन दृढबन्धापि
नीवी स्वयमेव स्खलिष्यति ततो मेखलालम्बितं जघनस्थितमेव वासस्तेनापहरणीय मिति
जघनेत्युपात्तम् । तदुक्तं रतिरहस्ये— '-- "ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपो
दरे
मत्स्यवद्धम्मिल्लः कुसुमाकुलो विगलति प्राप्नोति बन्धं पुनः । प्रच्छन्नौ व्रजतः स्तनौ प्रकटितं
श्रोणीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गिते योषिताम् ॥' '" "चटु-
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ सखि० ॥३॥
सङ्गमकुले रत्युत्पाताद्युपप्लवे । चौरिकयाभिसारः स्यात्स्वदारानिह रक्षयेत्" ॥ निशि-
रात्रौ । अपि च किंभूतम् । रहसि गुप्तस्थाने निलीय तिरोभूय वसन्तम् । अपि च किंभू-
तया । चकितेन विलोकिताः सकला दिशो यया सा । कुत्र कृष्णो वसतीति गवेषि-
तुमभिसरन्तीं सख्यो मां मा द्राक्षुरिति लज्जया त्रासोत्कम्पेनेति । अपि किंभूतम् । रत्यु-
त्साहवशेन हसन्तम् ॥ २ ॥ अपि च ।
गम इव लज्जितया तत्कालीनाश्चेष्टाः कुर्वन्त्या वा । बहुकालान्तरित
समागमता अपि । किंभूतम् । पटुचाटुशतैरनुकूलं सान्त्वनक्षम
नयपरम् । एतदुक्तं भवति
र्योजयेत्संनिधाने । करतलमथ गात्रे भ्रामयन्शश्वदस्याश्छुरितमुदरपृष्ठे मन्दमाश्लिष्य
दद्यात् ॥
किमिति न मया मूढया प्राणनाथश्चम्बत्यस्मिन्वदनविकृतिः किं कृता किं न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते
रसज्ञा ॥
स्मितपूर्वं भाषणं यस्याः सा तया । अपि किंभूतम् । शिथिलीकृतजघनदुकूलं श्लथीकृतं
जघनस्थितं पट्टवस्त्रं वा । अन्तर्भावितणिजर्थत्वात् श्लथीकरणे सङ्गमस्य हेतुत्वम् । संग-
मादेव श्लथमभवदिति । तदुक्तं भरते
बन्धनाद्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बस्थितम् । एतावत्सखि वेद्मि केव-
लमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं च कीदृशमिति स्वल्पापि मे न स्मृतिः ॥"
कृत्वाभिसरन्तीं मां मा कश्चन पश्यत्विति च शङ्कितां पश्यत्येवेति च भावः । कीदृशं कृष्णम् ।
रतौ यो रभस उत्साहस्तद्युक्तो यो रसः शृङ्गाराख्यस्
क्षेपासहिष्णुम् । तथात्मप्रकटनार्थं पुनः स्थितमपि मामियं न पश्यतीतिकृत्वा
भावः ।
कीदृश्या मया ।<pratika प्रथमेति ।
कथमेतस्याग्रे प्रकटयाम्यात्मानमिति लज्जाकारणम् । कीदृशं कृष्णम् । पटु नायिका
यच्चाटुशतं प्रियवचनशतं तेनानुकूलम् । पुनः कीदृश्या मया । मृदु कोमलं मधुरं
माधुर्यगुणयुक्तं भाषितं यस्यास्तया । तदीयचाटूक्तिभिरपहृतलज्जया । किंचित्स्मितभाषि-
तयेत्यर्थः । पुनः कीदृशं कृष्णम् । शिथिलीकृतं स्मितानुरागानुकूलां मां ज्ञात्वा श्लथीकृतं
जघनस्थितं दुकूलं पट्टवस्त्रं येन तादृशम् । अशेषनायकमणिश्रीकृष्णदर्शनेन दृढबन्धापि
नीवी स्वयमेव स्खलिष्यति ततो मेखलालम्बितं जघनस्थितमेव वासस्तेनापहरणीय
जघनेत्युपात्तम् । तदुक्तं रतिरहस्ये
मत्स्यवद्धम्मिल्लः कुसुमाकुलो विगलति प्राप्नोति बन्धं पुनः । प्रच्छन्नौ व्रजतः स्तनौ प्रकटितं
श्रोणीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गिते योषिताम् ॥