2022-11-12 07:46:01 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
चकितविलोकितसकलदिशा रतिरभस[^१]भरेण हसन्तम् ।
सखि हे केशिमथनमुदारम्
रमय मया सह मदनमनोरथभावितया सविकारम् ॥ ध्रुवम् ॥ २ ॥
पदं व्याक्रियते -- <pratika>सखि हे इति ।</pratika> हे सखि, मया सह केशिमथनं कृष्णं रमय काम-
केलीः कारय । किंभूतम् । उदारं महान्तम् । किंभूतया मया । सविकारं नानाविकार-
सहितम् । विकारः कामजो भावः कुचोदरादिप्रकटनम् । तदुक्तं रसिकसर्वस्वे -- "नाभी-
मूलकुचोदरप्रकटनव्याजेन यद्योषितां साकाङ्क्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च ।
केशभ्रंशनसंयमौ च कमितुर्मित्रादिसंदर्शनैः सौभाग्यादिगुणप्रशस्तिकथनैस्तत्सानुरा-
गेङ्गितम् ॥" इति । रतिचेष्टासहितं यथा स्यात्तथा मदनमनोरथभावितया कामके-
लीच्छाभावितान्तःकरणया । अथवा कथोपलक्षितं रमयेति कृष्णविशेषणत्वेनाह --
मदनमनोरथानां भावो विद्यते यस्मिन् स भावी तस्य भावो भाविता तया । किमुक्तं
भवति । यथाहं तस्मिन्नभिलाषवती तथा सोऽपि मयि स्यादिति भावः । एवं शृङ्गार-
रसः संपन्नो भवति । तथा चोक्तम् -- "चेष्टा भवति पुंनार्यो रत्युत्थानातिसक्तयोः ।
संभोगो विप्रलम्भश्च स शृङ्गारो द्विधा मतः ॥" अथवा किंभूतं हरिम् । सविकारम् ।
मानसभावसहितमिति कृष्णविशेषणम् । <pratika>इति ध्रुवः ।</pratika> अथ पदानि । <pratika>निभृतेति ।</pratika>
तमेवोभयनिष्ठं भावं सूचयन्त्याह । किंभूतया मया । निभृतनिकुञ्जगृहं गतया विवि-
क्तकुञ्जगेहं गतया । "वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः" इत्युक्तत्वात्तथाप्य-
वसरोचितं व्याख्यातव्यम् । एतेनाभिसारस्थानमुक्तम् । तदुक्तं भरते -- "विवाहे तीर्थ-
यात्रादौ बन्धनोत्सवके तथा । नटनृत्ये तथा केलौ जागरोद्यानसंगतौ । असती-
मालवरागः एकताली तालश्च । गीतार्थस्तु -- हे सखि, मया सह केशिमथनं कृष्णं रमय ।
कीदृश्या मया । मदनस्य यो मनोरथ इच्छा तद्युक्तो यो भावो रत्याख्यः स जातो यस्या-
स्तादृश्या । यद्वा । मदनमनोरथेन भावितया प्राप्तया । ननु को वेद मया प्रार्थने कृते
कदाचिन्नायात इत्यत आह । उदारमौदार्यगुणसंयुक्तम् । तथा च त्वत्प्रार्थितमवश्यं स
दास्यत्येवेति भावः । कीदृशं कृष्णम् । सविकारं विकारो मानसो भावस्तत्सहितम् ।
तदान्योन्यानुरागपूर्वकत्वेन शब्दवर(?)पुष्ट्यर्थम् । अन्यथा रसाभासो भवतीति भावः । यद्वा
सविकारमिति क्रियाविशेषणन् । विकारः स्तनप्रान्तादिप्रकटनं तत्सहितं यथा स्यादेवं
मदनमनोरथभावितयेत्यर्थः । तदुक्तं रसिकसर्वस्वे -- "नाभीमूलकुचोदरप्रकटनव्याजेन यद्योषितां
साकाङ्क्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च । केशभ्रंशनसंयमौ च कमितुर्मित्रादि-
संदर्शनैः सौभाग्यादिगुणप्रशस्तिकथनैस्तत्सानुरागेङ्गितम् ॥" इति । अत्र केशिमथनपदोपादानं
सामर्थ्यख्यापनाय । तत्प्रयोजनं च निःशङ्ककेलिप्रतिपादने । भावितेत्यत्र प्रथमे
व्याख्याने तारकादित्वादितच् । द्वितीये पक्षे "भावितं वासिते पक्षे" इति विश्वः । पुनः
कीदृश्या मया । निभृतमेकान्तं यन्निकुञ्जरूपं गृहं तं प्रति गतया । कीदृशं कृष्णम् । निशि
रात्रौ रहस्येकान्ते निलीय तिरोहितीभूय वसन्तं तिष्ठन्तम् । एवंभूतं मां राधा पश्यत्विति
कुतोऽपि मत्प्रतारणाय संकुचितमात्मानं कृत्वावस्थितमिति भावः । पुनः कीदृश्या ।
[^१.] "रभसरसेन" इति पाठः ।