This page has been fully proofread once and needs a second look.

४४
 
गीतगोविन्दकाव्यम्
रतिरभसंभरेण हसन्तम् ।
 
[ सर्गः २
 
चकितविलोकितसकलदिशा
रतिरभस[^१]भरेण हसन्तम् ।
सखि हे केशिमथनमुदारम्
 

रमय मया सह मदनमनोरथभावितया सविकारम् ॥ ध्रुवम् ॥ २ ॥
 

 
पदं व्याक्रियते -- <pratika>सखि हे इति ।</pratika> हे सखि, मया सह केशिमथनं कृष्णं रमय काम-

केली:लीः कारय । किंभूतम् । उदारं महान्तम् । किंभूतया मया । सविकारं नानाविकार-

सहितम् । विकारः कामजो भावः कुचोदरादिप्रकटनंम् । तदुक्तं रसिकसर्वस्खे–'वे -- "नाभी-

मूलकुचोदरप्रकटन व्याजेन यद्योषितां साकाङ्क्षं मुहुरीक्षणं स्खलितता नीवी निबन्धस्य च ।

केशभ्रंशनसंयमौ च कमितुर्मिंमित्रादिसंदर्शनैः सौभाग्यादिगुण प्रशस्तिकथनैस्तत्सानुरा-

गेङ्गितम् ॥" इति । रतिचेष्टासहितं यथा स्यात्तथा मदनमनोरथभावितया कामके-

लीच्छाभावितान्तःकरणया । अथवा कथोपलक्षितं रमयेति कृष्णविशेषणत्वेनाह-
--
मदनमनोरथानां भावो विद्यते यस्मिन् स भावी तस्य भावो भाविता तया । किमुक्तं

भवति । यथाहं तस्मिन्नभिलाषवती तथा सोऽपि मयि स्यादिति भावः । एवं शृङ्गार-

रसः संपन्नो भवति । तथा चोक्तम्- ' -- "चेष्टा भवति पुंनार्यो रत्युत्थानातिसक्तयोः .

संभोगो विप्रलम्भश्च स शृङ्गारो द्विधा मतः ॥'" अथवा किंभूतं हरिम् । सविकारम् ।

मानसभावसहितमिति कृष्णविशेषणम् । <pratika>इति ध्रुवः ।</pratika> अथ पदानि । <pratika>निभृतेति ।
</pratika>
तमेवोभयनिष्ठं भावं सूचयन्त्याह । किंभूतया मया । निभृतनिकुञ्जगृहं गतया विवि-
"

क्तकुञ्जगेहं गतया । '"वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः'" इत्युक्तत्वात्तथाप्य-

वसरोचितं व्याख्यातव्यम् । एतेनाभिसारस्थानमुक्तम् । तदुक्तं भरते — '-- "विवाहे तीर्थ-

यात्रादौ बन्धनोत्सव के तथा । नटनृत्ये तथा केलौ जागरोद्यानसंगतौ । असती.
-
 
मालवरागः एकताली तालश्च । गीतार्थस्तु -- हे सखि, मया सह केशिमथनं कृष्णं रमय ।

कीदृश्या मया । मदनस्य यो मनोरथ इच्छा तद्युक्तो यो भावो रत्याख्यः स जातो यस्या-

स्तादृश्या । यद्वा । मदनमनोरथेन भावितया प्राप्तया । ननु को वेद मया प्रार्थने कृते

कदाचिन्नायात इत्यत आह । उदारमौदार्यगुणसंयुक्तम् । तथा च त्वत्प्रार्थितमवश्यं स

दास्यत्येवेति भावः । कीदृशं कृष्णम् । सविकारं विकारो मानसो भावस्तत्सहितम् ।

तदान्योन्यानुरागपूर्वकत्वेन शब्दवर
(?) पुष्ट्यर्थम् । अन्यथा रसाभासो भवतीति भावः । यद्वा

सविकारमिति क्रियाविशेषणन् । विकारः स्तनप्रान्तादि प्रकटनं तत्सहितं यथा स्यादेवं

मदनमनोरथभावितयेत्यथैःर्थः । तदुक्तं रसिकसर्वस्वे- ' -- "नाभीमूलकुचोदरप्रकटनव्याजेन यद्योषितां

साकाङ्क्षं मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च । केशभ्रंशन संयमौ च कमितुर्मिंमित्रादि
-
संदर्शनैः सौभाग्यादिगुणप्रशस्ति कथनैस्तत्सानुरागेङ्गितम् ॥'" इति । अत्र केशिमथनपदोपादानं

सामर्थ्य ख्यापनाय । तत्प्रयोजनं च नि:निःशङ्ककेलिप्रतिपादने । भावितेत्यत्र प्रथमे

व्याख्याने तारकादित्वादितच् । द्वितीये पक्षे '"भावितं वासिते पक्षे'" इति विश्वः । पुनः

कीदृश्या मया । निभृत मेकान्तं यन्निकुञ्जरूपं गृहं तं प्रति गतया । कीदृशं कृष्णम् । निशि

रात्रौ रहस्येकान्ते निलीय तिरोहितीभूय वसन्तं तिष्ठन्तम् । एवंभूतं मां राधा पश्यत्विति

कुतोऽपि मत्प्रतारणाय संकुचितमात्मानं कृत्वावस्थितमिति भावः । पुनः कीदृश्या ।

 
[^
'.] "रभसरसेन'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri