2022-10-18 04:13:57 by ambuda-bot
This page has not been fully proofread.
४४
गीतगोविन्दकाव्यम्
रतिरभसंभरेण हसन्तम् ।
[ सर्गः २
चकितविलोकितसकलदिशा
सखि हे केशिमथनमुदारम्
रमय मया सह मदनमनोरथभावितया सविकारम् ॥ ध्रुवम् ॥ २ ॥
पदं व्याक्रियते – सखि हे इति । हे सखि, मया सह केशिमथनं कृष्णं रमय काम-
केली: कारय । किंभूतम् । उदारं महान्तम् । किंभूतया मया । सविकारं नानाविकार-
सहितम् । विकारः कामजो भावः कुचोदरादिप्रकटनंम् । तदुक्तं रसिकसर्वस्खे–'नाभी-
मूलकुचोदरप्रकटन व्याजेन यद्योषितां साका मुहुरीक्षणं स्खलितता नीवी निबन्धस्य च ।
केशभ्रंशनसंयमौ च कमितुर्मिंत्रादिसंदर्शनैः सौभाग्यादिगुण प्रशस्तिकथनैस्तत्सानुरा-
गेङ्गितम् ॥" इति । रतिचेष्टासहितं यथा स्यात्तथा मदनमनोरथभावितया कामके-
लीच्छाभावितान्तःकरणया । अथवा कथोपलक्षितं रमयेति कृष्णविशेषणत्वेनाह-
मदनमनोरथानां भावो विद्यते यस्मिन् स भावी तस्य भावो भाविता तया । किमुक्तं
भवति । यथाहं तस्मिन्नभिलाषवती तथा सोऽपि मयि स्यादिति भावः । एवं शृङ्गार-
रसः संपन्नो भवति । तथा चोक्तम्- 'चेष्टा भवति पुंनार्यो रत्युत्थानातिसक्तयोः .
संभोगो विप्रलम्भश्च स शृङ्गारो द्विधा मतः ॥' अथवा किंभूतं हरिम् । सविकारम् ।
मानसभावसहितमिति कृष्णविशेषणम् । इति ध्रुवः । अथ पदानि । निभृतेति ।
तमेवोभयनिष्ठं भावं सूचयन्त्याह । किंभूतया मया । निभृतनिकुञ्जगृहं गतया विवि-
"क्तकुञ्जगेहं गतया । 'वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः' इत्युक्तत्वात्तथाप्य-
वसरोचितं व्याख्यातव्यम् । एतेनाभिसारस्थानमुक्तम् । तदुक्तं भरते — 'विवाहे तीर्थ-
यात्रादौ बन्धनोत्सव के तथा । नटनृत्ये तथा केलौ जागरोद्यानसंगतौ । असती.
मालवरागः एकताली तालश्च । गीतार्थस्तु — हे सखि, मया सह केशिमथनं कृष्णं रमय ।
कीदृश्या मया । मदनस्य यो मनोरथ इच्छा तद्युक्तो यो भावो रत्याख्यः स जातो यस्या-
स्तादृश्या । यद्वा । मदनमनोरथेन भावितया प्राप्तया । ननु को वेद मया प्रार्थने कृते
कदाचिन्नायात इत्यत आह । उदारमौदार्यगुणसंयुक्तम् । तथा च त्वत्प्रार्थितमवश्यं स
दास्यत्येवेति भावः । कीदृशं कृष्णम् । सविकारं विकारो मानसो भावस्तत्सहितम् ।
तदान्योन्यानुरागपूर्वकत्वेन शब्दवर
(?) पुष्ट्यर्थम् । अन्यथा रसाभासो भवतीति भावः । यद्वा
सविकारमिति क्रियाविशेषणन् । विकारः स्तनप्रान्तादि प्रकटनं तत्सहितं यथा स्यादेवं
मदनमनोरथभावितयेत्यथैः । तदुक्तं रसिकसर्वस्वे- 'नाभीमूलकुचोदरप्रकटनव्याजेन यद्योषितां
साका मुहुरीक्षणं स्खलितता नीवीनिबन्धस्य च । केशभ्रंशन संयमौ च कमितुर्मिंत्रादि
संदर्शनैः सौभाग्यादिगुणप्रशस्ति कथनैस्तत्सानुरागेङ्गितम् ॥' इति । अत्र केशिमथनपदोपादानं
सामर्थ्य ख्यापनाय । तत्प्रयोजनं च नि:शङ्ककेलिप्रतिपादने । भावितेत्यत्र प्रथमे
व्याख्याने तारकादित्वादितच् । द्वितीये पक्षे 'भावितं वासिते पक्षे' इति विश्वः । पुनः
कीदृश्या मया । निभृत मेकान्तं यन्निकुञ्जरूपं गृहं तं प्रति गतया । कीदृशं कृष्णम् । निशि
रात्रौ रहस्येकान्ते निलीय तिरोहितीभूय वसन्तं तिष्ठन्तम् । एवंभूतं मां राधा पश्यत्विति
कुतोऽपि मत्प्रतारणाय संकुचितमात्मानं कृत्वावस्थितमिति भावः । पुनः कीदृश्या ।
१ 'रभसरसेन' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri