2022-11-12 07:15:23 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
गणयति गुणग्रामं भामं भ्रमादपि नेहते
वहति च परीतोषं दोषं विमुञ्चति दूरतः ।
युवतिषु व[^१]लत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १ ॥
<bold>मालवगौडरागेण एकतालीतालेन च गीयते ॥ प्र० ॥ ६ ॥</bold>
निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
<pratika>गणयतीति ।</pratika> हे सखि, मम चित्तमद्यापि पुनरपि कृष्णे कामं करोति । तर्हि वद
किं करोमि । किंविशिष्टे । युवतिषु गोपीषु वलत्तृष्णे । वलन्ती संभजमाना तृष्णा
स्पृहा यस्य तस्मिन् । अपि च मां विना विहारिण्यपि क्रीडाशीलेऽपि । अत्र अपिशब्दः
पुनर्योज्यते । किंविशिष्टं चेतः । वामं मयि विपरीतचरितम् । विपरीतत्वे हेतुमाह ।
यतः कृष्णस्य सापराधस्यापि गुणसमूहं गणयति कृतानप्यपराधांस्त्यक्त्वा । अपि च
भ्रमादपि भ्रान्तिं प्राप्यापि कोपं नेहते न चेष्टते । पुनरसंतोषकाले परितोषं वहति ।
अपि च सन्तमपि दोषं दूरतो विमुञ्चति । नीरागजने सानुरागम् । अतएव वामम् । इय-
मुत्कण्ठिता नायिका । तल्लक्षणम् -- "उद्दाममन्मथमहाज्वरवेपमानां रोमाञ्चकण्टकित-
मङ्गकमावहन्तीम् । संवेदवेपथुघनोत्कलिकाकुलाङ्गीमुत्कण्ठितां वदति तां भरतः कवी-
न्द्रः" । "उत्का भवति सा यस्या वासके नागतः प्रियः । तस्यानागमने हेतुं चिन्तय-
न्त्याकुला यथा" ॥ अत्र हरिणीवृत्तम् । यमकं शब्दालंकारः । संशयदीपकावर्थालंकारौ
क्रियौचिरत्यं च ॥ १ ॥ इदानीं कामज्वरसंतप्तहृदया राधा सख्यां दूतीत्वमारोप्य
कृष्णेन सहानुसन्धानमभिलषन्ती आह वर्णयतितालेन -- <pratika>निभृतेति ।</pratika> पूर्वं ध्रुव-
ननु कृष्णस्त्वां विहायान्यगोपीभिः सह विहरति त्वं किमिति तं स्मरसीत्यत आह --
<pratika>गणयतीति ।</pratika> मे मनः कृष्णे पुनरपि काममभिलाषं करोति तात्किं करोमि । कीदृशे
कृष्णे । युवतिषु बह्वीषु चलन्ती वर्धमाना तृष्णा यस्य तादृशे । अत एव मां विना
विहारिणि वारंवारं विहरणशीले न तु विहरति । कीदृशं मनः । अत एव वामं प्रतिकूलम् ।
वामे हेत्वन्तरमाह -- <pratika>गणयतीति ।</pratika> तस्य गुणानां सौदर्यादीनां ग्रामं समूहं गणयति
परिसंख्याति । भामं क्रोधं भ्रमादपि नेहते न वाञ्छति । दोषं वैरमवधीरणादिकं
दूरतो विमुञ्चति । तत्र हेतुमाह -- <pratika>वहतीति ।</pratika>परितोषं संतोषं वहति । अत्र
विभावनाविशेषोक्ती अलंकारौ । निजानुसरणरूपानुरागहेतुं विनाप्यनुरागप्रकाशनात् ।
अन्याङ्गनासक्तिरूपवैराग्यहेतुसत्त्वेऽपि वैराग्याकथनाच्च । तथा च काव्यप्रकाशे -- "क्रियायाः
प्रतिषेधेऽपि फलव्यक्तिर्विभावना । विशेषोक्तिरखण्डेषु कारणेषु फलावचः ॥" इति । एषा च
काव्यप्रकाशकृता व्याख्याता -- हेतुक्रियाप्रतिषेधेऽपि फलप्रकाशनं विभावना । मिलितेष्वपि
कारणेषु कार्यस्याकथनं विशेषोक्तिरिति । "कामः स्मरे संवसथे वृन्दे शब्दादिपूर्वके" इति
विश्वप्रकाशः । "भामः क्रोधे रवौ दीप्तौ" इति । "कामः स्मरेऽभिलाषे च" इति च ॥ १ ॥
अथोत्कण्ठिता राधा सखीं स्वमनोरथमाह -- <pratika>निभृतनिकुञ्जेति ।</pratika>गीतस्यास्य गौड-
[^१.] "चलत्" इति पाठः ।