This page has been fully proofread once and needs a second look.

सर्ग: २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ४३
 
गणयति गुणग्रामं भामं भ्रमादपि नेहते

वहति च परीतोषं दोषं विमुञ्चति दूरतः ।

युवतिषु वैव[^१]लत्तृष्णे कृष्णे विहारिणि मां विना

पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १ ॥

 
<bold>
मालवगौडरागेण एकतालीतालेन च गीयते ॥ प्र० ॥ ६ ॥
</bold>
 
निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
 

 
<pratika>
गणयतीति ।</pratika> हे सखि, मम चित्तमद्यापि पुनरपि कृष्णे कामं करोति । तर्हि वद

किं करोमि । किंविशिष्टे । युवतिषु गोपीषु वलत्तृष्णे । वलन्ती संभजमाना तृष्णा

स्पृहा यस्य तस्मिन् । अपि च मां विना विहारिण्यपि क्रीडाशीलेऽपि । अत्र अपिशब्दः

पुनर्योज्यते । किंविशिष्टं चेतः । वामं मयि विपरीतचरितम् । विपरीतलेत्वे हेतुमाह ।

यतः कृष्णस्य सापराधस्यापि गुणसमूहं गणयति कृतानप्यपराधांस्त्यक्त्वा । अपि च

भ्रमादपि भ्रान्तितिं प्राप्यापि कोपं नेहते न चेष्टते । पुनरसंतोषकाले परितोषं वहति ।

अपि च सन्तमपि दोषं दूरतो विमुञ्चति । नीरागजने सानुरागम् । अतएव वामम् । इय-

मुत्कण्ठिता नायिका । तल्लक्षणम् – '-- "उद्दाममन्मथमहाज्वरवेपमानां रोमाञ्चकण्टकित-

मङ्गकमावहन्तीम् । संवेदवेपथुघनोत्कलिकाकुलाङ्गीमुत्कण्ठितां वदति तां भरतः कवी-

न्द्रः' । '" । "उत्का भवति सा यस्या वासके नागतः प्रियः । तस्यानागमने हेतुं चिन्तय-

न्त्याकुला यथा'" ॥ अत्र हरिणीवृत्तम् । यमकं शब्दालंकारः । संशयदीपकावर्थालंकारौ

क्रियौचिरत्यं च ॥ १ ॥ इदानीं कामज्वरसंतप्तहृदया राधा सख्यां दूतीत्वमारोप्य

कृष्णेन सहानुसन्धानमभिलषन्ती आह वर्णयतितालेन -- <pratika>निभृतेति ।</pratika> पूर्वं ध्रुव-

 
ननु कृष्णस्त्वां विहायान्यगोपीभिः सह विहरति त्वं किमिति तं स्मरसीत्यत आह -
-
<pratika>
गणयतीति ।</pratika> मे मनः कृष्णे पुनरपि काममभिलाषं करोति तात्किं करोमि । कीदृशे

कृष्णे । युवतिषु बह्वीषु चलन्ती वर्धमाना तृष्णा यस्य तादृशे । अत एव मां विना

विहारिणि वारंवारं विहरणशीले न तु विहरति । कीदृशं मनः । अत एव वामं प्रतिकूलम् ।

वामे हेत्वन्तरमाह -- <pratika>गणयतीति ।</pratika> तस्य गुणानां सौदर्यादीनां ग्रामं समूहं गणयति

परिसंख्याति । भामं क्रोधं भ्रमादपि नेहते न वाञ्छति । दोषं वैरमवधीरणादिकं
 

दूरतो वि
मुञ्चति । तत्र हेतुमाह -- <pratika>वहतीति । </pratika>परितोषं संतोषं वहति । अत्र

विभावनाविशेषोक्ती अलंकारौ । निजानुसरणरूपानुरागहेतुं विनाप्यनुरागप्रकाशनात् ।

अन्याङ्गनासक्तिरूपवैराग्यहेतुसत्त्वेऽपि वैराग्याकथनाच्च । तथा च काव्यप्रकाशे–' -- "क्रियायाः

प्रतिषेधेऽपि फलव्यक्तिर्विभावना । विशेषोक्तिरखण्डेषु कारणेषु फलावचः ॥'" इति । एषा च

काव्यप्रकाशकृता व्याख्याता -- हेतुक्रियाप्रतिषेधेऽपि फलप्रकाशनं विभावना । मिलितेष्वपि

कारणेषु कार्यस्याकथनं विशेषोक्तिरिति । '"कामः स्मरे संवसथे वृन्दे शब्दादिपूर्वके'" इति

विश्वप्रकाशः । '"भामः क्रोधे रवौ दीप्तौ'" इति । '"कामः स्मरेऽभिलाषे च'" इति च ॥ १ ॥

अथोत्कण्ठिता राधा सखीं स्वमनोरथमाह - - <pratika>निभृतनिकुञ्जेति । </pratika>गीतस्यास्य गौड
-
 
[^
'.] "चलत्'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri