This page has not been fully proofread.

सर्ग: २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ४३
 
गणयति गुणग्रामं भामं भ्रमादपि नेहते
वहति च परीतोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वैलत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १ ॥
मालवगौडरागेण एकतालीतालेन च गीयते ॥ ५० ॥ ६ ॥
निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
 
गणयतीति । हे सखि, मम चित्तमद्यापि पुनरपि कृष्णे कामं करोति । तर्हि वद
किं करोमि । किंविशिष्टे । युवतिषु गोपीषु वलत्तृष्णे । वलन्ती संभजमाना तृष्णा
स्पृहा यस्य तस्मिन् । अपि च मां विना विहारिण्यपि क्रीडाशीलेऽपि । अत्र अपिशब्दः
पुनर्योज्यते । किंविशिष्टं चेतः । वामं मयि विपरीतचरितम् । विपरीतले हेतुमाह ।
यतः कृष्णस्य सापराधस्यापि गुणसमूहं गणयति कृतानप्यपराधांत्यक्त्वा । अपि च
भ्रमादपि भ्रान्ति प्राप्यापि कोपं नेहते न चेष्टते । पुनरसंतोषकाले परितोषं वहति ।
अपि च सन्तमपि दोषं दूरतो विमुञ्चति । नीरागजने सानुरागम् । अतएव वामम् । इय-
मुत्कण्ठिता नायिका । तल्लक्षणम् – 'उद्दाममन्मथमहाज्वरवेपमानां रोमाञ्चकण्टकित-
मङ्गकमावहन्तीम् । संवेदवेपथुघनोत्कलिकाकुलाङ्गीमुत्कण्ठितां वदति तां भरतः कवी-
न्द्रः' । 'उत्का भवति सा यस्या वासके नागतः प्रियः । तस्यानागमने हेतुं चिन्तय-
न्त्याकुला यथा' ॥ अत्र हरिणीवृत्तम् । यमकं शब्दालंकारः । संशयदीपकावर्थालंकारौ
क्रियौचियं च ॥ १ ॥ इदानीं कामज्वरसंतप्तहृदया राधा सख्यां दूतीत्वमारोप्य
कृष्णेन सहानुसन्धानमभिलषन्ती आह वर्णयतितालेन – निभृतेति । पूर्वं ध्रुव-
ननु कृष्णस्त्वां विहायान्यगोपीभिः सह विहरति त्वं किमिति तं स्मरसीत्यत आह -
गणयतीति । मे मनः कृष्णे पुनरपि काममभिलाषं करोति ताक करोमि । कीदृशे
कृष्णे । युवतिषु बह्वीषु चलन्ती वर्धमाना तृष्णा यस्य तादृशे । अत एव मां विना
विहारिणि वारंवारं विहरणशीले न तु विहरति । कीदृशं मनः । अत एव वामं प्रतिकूलम् ।
वामे हेत्वन्तरमाह — गणयतीति । तस्य गुणानां सौदर्यादीनां ग्रामं समूहं गणयति
परिसंख्याति । भामं क्रोधं भ्रमादपि नेहते न वाञ्छति । दोषं वैरमवधीरणादिकं
 
मुञ्चति । तत्र हेतुमाह — वहतीति । परितोषं संतोषं वहति । अत्र
विभावनाविशेषोक्ती अलंकारौ । निजानुसरणरूपानुरागहेतुं विनाप्यनुरागप्रकाशनात् ।
अन्याङ्गनासक्तिरूपवैराग्यहेतुसत्त्वेऽपि वैराग्याकथनाच्च । तथा च काव्यप्रकाशे–'क्रियायाः
प्रतिषेधेऽपि फलव्यक्तिर्विभावना । विशेषोक्तिरखण्डेषु कारणेषु फलावचः ॥' इति । एषा च
काव्यप्रकाशकृता व्याख्याता - हेतुक्रियाप्रतिषेधेऽपि फलप्रकाशनं विभावना । मिलितेष्वपि
कारणेषु कार्यस्याकथनं विशेषोक्तिरिति । 'कामः स्मरे संवसथे वृन्दे शब्दादिपूर्वके' इति
विश्वप्रकाशः । 'भामः क्रोधे रवौ दीप्तौ' इति । 'कामः स्मरेऽभिलाषे च' इति च ॥ १ ॥
अथोत्कण्ठिता राधा सखीं स्वमनोरथमाह - निभृतनिकुञ्जेति । गीतस्यास्य गौड
१ 'चलत्' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri