This page has been fully proofread once and needs a second look.

विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
मामपि किमपि तरलतरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ रासे० ॥
 
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ रासे० ॥ ९ ॥
 
आश्रितो मुनिमनुजसुरासुरलक्षणो वरपरिवारो यस्य तम् ॥ ७ ॥<pratika>विशदेति ।</pratika> विश-
दकदम्बतले मिलितम् । अर्थान्मुन्यादिभिरुपस्थितम् । अत एव कलिकलुषभयं शम-
यन्तं पापं नाशयन्तम् । पुनः किं कुर्वन्तम् । मनसा करणभूतेन तरलतरङ्गदनङ्गदृशा
तरला चासौ तरङ्गदनङ्गा च । तरङ्गन्संमूर्च्छन्ननङ्गो यत्र तथाविधया दृष्ट्या मामपि
रमयन्तम् । अपीति गोपीश्च । अतएव कलिकलुषभयं कलहकालुष्यभयं शमयन्तम् ।
अत्र तरंगदनङ्गेति सरसदृष्टिरुक्ता ॥ ८ ॥ <pratika>श्रीजयदेवेति ।</pratika>अत्रालापस्तेन पाटः
हरिचरणस्मरणं प्रति हरेः कृष्णस्य चरणं रासक्रीडाद्याचरणं तस्य स्मरणं प्रति इदं
श्रीजयदेवभणितम् । राधया अष्टपद्यादौ स्मरति मनो ममेत्यादि भणितम् । संप्रति
इदानीमपि पुण्यवतामनुरूपं योग्यम् । सतां हरिचरणस्मरणे हेतुर्भवतीति यावत् ।
किंभूतम् । अतीव सुन्दरम् । तथा मोहनमधुरिपो रूपं यत्र तत्तथा । अत्र "मुनियग-
णैर्लयमामनन्ति" इति लयो नाम छन्दः । अत्र सर्वा अपि जातयो रासा भवन्तीति
केचित् । यदाह -- "सयलाउ जाईउ एत्थावसेण एत्थ वत्तन्ति । रासा बन्धो रसायणं
विगोठ्ठीसु" ॥९॥ इदानीं राधा तदेव रहस्यं भङ्ग्यन्तरेणाह । "रागो धन्यासिको यत्र
तालो वर्णयतिः स्मृतः । चम्पूबन्धप्रयोगान्ते गमकानेकविस्तरः ॥ तदन्ते स्युः
स्वरास्तेनाः पाठः शुचिरसाञ्चिताः । प्रबन्धोऽयं मुररिपोः पुरस्ताद्रत्नकण्ठिका ॥"
इति । स चायं मधुरिपुरत्नकण्ठिका नाम पञ्चमः प्रबन्धो भैरवरागेण गीयते
 
गुणलक्षणम् ॥ ७ ॥ पुनः कीदृशम् । <pratika>विशदेति ।</pratika>विशदस्य कदम्बस्य तले मूले मिलितं
लग्नं, मत्संकेतीकृतकदम्बतले मदपेक्षयाग्रत एव गत्वा केचन न मां पश्यन्त्विति मत्प्रतारणाय
वा निलीय स्थितं कृष्णं मे मनः स्मरतीत्यर्थः । पुनः कीदृशम् । कलिः प्रणयकलह-
स्तस्माद्यत्कलुषं चित्तकश्मलं "अहं संकेते समागता असौ नागतः प्रायशोऽन्यवल्लभासक्तो
भविष्यत्यतः परं यद्यायास्यति तदा मया न संभाषणीयः" इत्येवंरूपम् । एकाकी कथं
कथमत्र तिष्ठामीति च तद्द्वयं कदम्बमूलादुपेत्य चाटूक्तिभिः शमयन्तमित्यर्थः । यद्वा ।
कलेः कलियुगस्य यत्कलुषं पापं तद्भयं शमयन्तमित्यर्थः । पुनः कीदृशम् । किमप्यनि-
र्वचनीयमेव यथा स्यात्तथा उद्गच्छन्ननङ्गः कामो यत्र एतादृश्या दृशा दृष्ट्या मनसा च
मामपि रमयन्तमित्यर्थः । मामपीत्यपिशब्देन सोत्कण्ठोक्त्याहमपि हरेः कस्यचिल्लोको-
त्तरप्रणयपात्रमासं न त्वेतादृश्योऽन्या वध्व इति ध्वनितम् । "कलिः स्यात्कलहे शूले
कलिरन्त्ययुगे युधि" इति विश्वः । "कलुषं त्वाविलैनसोः" इत्यपि ॥ ८ ॥ <pratika>श्रीजयदेवेति ।</pratika>
श्रीजयदेवकवेरिदं भणितं पुण्यवतां कृष्णस्मरणानुकूलादृष्टवतां हरिचरणस्मरणं प्रति
संप्रति कलौ अनुरूपं योग्यम् । कीदृशम् । अतिसुन्दरं मोहनं गोपवधूमोहनकारि
मधुरिपोः कृष्णस्य रूपं वृत्तम् । अनायासतो हरिस्मरणं भवतीति भावः ॥ ९ ॥