This page has been fully proofread once and needs a second look.

४२
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: २
 
विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।

मामपि किमपि तरलतरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥रासे० ॥८॥

 
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
 

हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ रासे० ॥ ९ ॥
 

 

 
आश्रितो मुनिमनुजसुरासुरलक्षणो वरपरिवारो यस्य तम् ॥ ७ ॥ <pratika>विशदेति ।</pratika> विश-

दकदम्बतले मिलितम् । अर्थान्मुन्यादिभिरुपस्थितम् । अत एव कलिकलुषभयं शम-

यन्तं पापं नाशयन्तम् । पुनः किं कुर्वन्तम् । मनसा करणभूतेन तरलतरङ्गदनङ्गदृशा

तरला चासौ तरङ्गदनङ्गा च । तरङ्गन्संमूर्च्छन्ननङ्गो यत्र तथाविधया दृष्ट्या मामपि

रमयन्तम् । अपीति गोपीश्च । अतएव कलिकलुषभयं कलहकालुष्यभयं शमयन्तम् ।

अत्र तरंगदनङ्गेति सरसदृष्टिरुक्ता ॥ ८ ॥ <pratika>श्रीजयदेवेति । </pratika>अत्रालापस्तेन पाट:
टः
हरिचरणस्मरणं प्रति हरेः कृष्णस्य चरणं रासक्रीडाद्याचरणं तस्य स्मरणं प्रति इदं

श्रीजयदेवभणितम् । राधया अष्टपद्यादौ स्मरति मनो ममेत्यादि भणितम् । संप्रति

इदानीमपि पुण्यवतामनुरूपं योग्यम् । सतां हरिचरणस्मरणे हेतुर्भवतीति यावत् ।

किंभूतम् । अतीव सुन्दरम् । तथा मोहनमधुरिपो रूपं यत्र तत्तथा । अत्र '"मुनियग-
'गै

णै
र्लयमामनन्ति'" इति लयो नाम छन्दः । अत्र सर्वा अपि जातयो रासा भवन्तीति

केचित् । यदाह —'-- "सयलाउ जाईउ एत्थावसेण एत्थ वत्तन्ति । रासा बन्धो रसायणं

विगोठ्ठीसु'" ॥९॥ इदानीं राधा तदेव रहस्यं भङ्ग्यन्तरेणाह । '"रागो धन्यासिको यत्र

तालो वर्णयतिः स्मृतः । चम्पूबन्धप्रयोगान्ते गमकाने कविस्तरः ॥ तदन्ते स्युः

स्वरास्तेनाः पाठः शुचिरसाञ्चिताः । प्रबन्धोऽयं मुररिपोः पुरस्ताद्रत्नकण्ठिका ॥"

इति । स चायं मधुरिपुरत्नकण्ठिका नाम पञ्चमः प्रबन्धो भैरवरागेण गीयते
 

 
गुणलक्षणम् ॥ ७ ॥ पुनः कीदृशम् । <pratika>विशदेति । </pratika>विशदस्य कदम्बस्य तले मूले मिलितं

लग्नं, मत्संकेतीकृतकदम्बतले मदपेक्षयाग्रत एव गत्वा केचन न मां पश्यन्त्विति मत्प्रतारणाय

वा निलीय स्थितं कृष्णं मे मनः स्मरतीत्यर्थः । पुनः कीदृशम् । कलिः प्रणयकलह-

स्तस्माद्यत्कलुर्षं चित्तकश्मलं '"अहं संकेते समागता असौ नागतः प्रायशोऽन्यवल्लभासक्तो

भविष्यत्यतः परं यद्यायास्यति तदा मया न संभाषणीयः'" इत्येवंरूपम् । एकाकी कथं

कथमत्र तिष्ठामीति च तद्द्वयं कदम्बमूलादुपेत्य चाटूक्तिभिः शमयन्तमित्यर्थः । यद्वा ।

कलेः कलियुगस्य यत्कलुषं पापं तद्भयं शमयन्तमित्यर्थः । पुनः कीदृशम् । किमप्यनि-

र्वचनीयमेव यथा स्यात्तथा उद्गच्छन्ननङ्गः कामो यत्र एतादृश्या दृशा दृष्ट्या मनसा च

मामपि रमयन्तमित्यर्थः । मामपीत्यपिशब्देन सोत्कण्ठोक्त्याहमपि हरेः कस्यचिल्लोको-

त्तरप्रणयपात्रमासं न त्वेतादृश्योऽन्या वध्व इति ध्वनितम् । '"कलिः स्यात्कलहे शूले

लिरन्त्ययुगे युधि'" इति विश्व: । 'वः । "कलुषं त्वाविलैनसोः'" इत्यपि ॥ ८ ॥ <pratika>श्रीजयदेवेति ।
</pratika>
श्रीजयदेवकवेरिदं भणितं पुण्यवतां कृष्णस्मरणानुकूलादृष्टवतां हरिचरणस्मरणं
प्रति
संप्रति कलौ अनुरूपं योग्यम् । कीदृशम् । अतिसुन्दरं मोहनं गोपवधूमोहनकारि

मधुरिपोः कृष्णस्य रूपं वृत्तम् । अनायासतो हरिस्मरणं भवतीति भावः ॥ ९ ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri