This page has been fully proofread once and needs a second look.

सर्गः २जलदपटलव[^१] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
जलदपटलव
लदिन्दुविनिन्दकचन्दनतिलकललाटम् ।

पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम् ॥ रासे० ॥ ६ ॥

 
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम्
 

 
!!

पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ रासे० ॥ ७ ॥
 

 
येन । पुनश्च करौ च चरणौ च उरश्च तेषां समाहारः करचरणोरः । प्राण्यङ्गत्वात्स-

माहारः । '"अमूर्धमस्तकात्स्वाङ्गादकामे'" इति सप्तम्या अलुक्समासः । तत्र स्थितानां

मणिगणभूषाणां किरणैर्विभिन्नं तमिस्रं येन स तथा ॥ ५ ॥ <pratika>जलदेति ।</pratika> जलद-

पटलं घनसमूहः तं वलतः संभजमानस्येन्दोश्चन्द्रस्य विनिन्दकश्चन्दनतिलको ललाटे,

यस्य, वर्तुल इति यावत् । केचिञ्च्चलदिति पठन्ति तत्र जलदपटलं गच्छत इति व्याख्ये-

यम् । तत्पक्षे वंशे वाद्यमाने मूर्ध्नः कम्पेन ललाटे तिलकं चलदिव दृश्यते । अत्र

ललाटस्य श्यामत्वात्तिलकस्य गौरत्वान्मेघचन्द्राभ्यामुपमानोपमेयभावः ॥ अपि च

पीनौ घनौ यो स्तनौ तन्मण्डलमर्दने निर्दयं हृदयकपाटं यस्य । चलदित्यत्रापि तथैव

॥ ६॥ <pratika>मणिमयेति । </pratika>मणिमये मकराकारे मनोहरे ये कुण्डले ताभ्यां मण्डितोऽलं-

कृतो गण्डो यस्य । अपि च उदारं दक्षिणम् । किंच पीते वसने यस्य । किंच अनुगत
 

 
मयैव सहेति तस्य स्मरणमुचितमेवेति ध्वनितम् । पुनः कीदृशम् । करयोश्चरणयोरुरसि

यानि मणिमयानि भूषणान्यलंकरणानि तेषां किरणैर्विभिन्नं नाशितं तमिस्रं येन

तम् । एतेन प्रथमाभिसारे स्वकीयालंकारकिरणैरुद्द्योते सति लज्जया परावर्तमानां

मां समानीय तां चेष्टां कृतवान् येन तं क्षणमपि मनो न विस्मरतीति ध्वनितम् ।
'

"
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः'" इत्यमरः ॥ ५ ॥ पुनः कीदृशम् । <pratika>जलदपट-

लेति ।</pratika> जलदपटले मेघसमूहे चलन्संचरन्य इन्दुश्चन्द्रस्तस्य विनिन्दकस्तच्छो भातिशा
यी
चन्दनबिन्दुर्मण्डलाकृति तिलकं यत्र तादृशं ललाटं यस्य तम् । पुनः कीदृशम्

पीनौ मांसलौ पयोधरौ स्तनौ तयोः परिसरस्य पर्यन्तभागस्य मर्दने निर्दयहृदयका
कपाटं
कपाटवद्विस्तीर्णं हृदयं यस्य तादृशम् ॥ ६ ॥ पुनः कीदृशम् । <pratika>मणिमयेति ।</pratika> मणिमये

मणिखचिते मकरवन्मनोहरे ये कुण्डले ताभ्यां मण्डितौ कपोलौ यस्य तम् । पुनः

कीदृशम् । उदारमौदार्यगुणयुक्तम् । अत्र रहसि मया यथोचितं तत्सर्वं तत्क्षणमिव

पूरितवानिति स कथं च न स्मर्यत इति ध्वनितम् । पुनः कीदृशम् । पीतं वसनं वस्त्रं यस्य तम् ।

औदार्योपपादकं विशेषणमाह -- अनुगता आश्रिता ये मुनयो नारदादयः, मनुजा मनुष्या

भीष्मादयः, सुरा इन्द्रादयः, असुराः प्रहाह्रादादयस्त एव वराः श्रेष्ठाः परिवारा:राः परिजना

यस्य तम् । तथा च तैरप्यधिगतः सुमनः फलैः सततं सेव्यत इति तस्यौदार्यं ख्यातमेवेति

भावः । '"परिवारः परिजने खड्कोशे परिच्छदे'" इति विश्व: । 'वः । "दानमभ्युपपत्तिश्च तथा

च प्रियभाषणम् । स्वजनेऽपि परे वापि तदौदार्यमिति स्मृतम् ॥" इति नायकौदार्य-

 
[^
'.] "चलदिन्दु'" इति पाठः
 
६ गीत●
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri