This page has not been fully proofread.

सर्गः २] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
जलदपटलवलदिन्दुविनिन्दकचन्दनतिलकललाटम् ।
पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम् ॥ रासे० ॥ ६ ॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम्
 

 
!! पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ रासे० ॥ ७ ॥
 
येन । पुनश्च करौ च चरणौ च उरश्च तेषां समाहारः करचरणोरः । प्राण्यङ्गत्वात्स-
माहारः । 'अमूर्धमस्तकात्स्वाङ्गादकामे' इति सप्तम्या अलुक्समासः । तत्र स्थितानां
मणिगणभूषाणां किरणैर्विभिन्नं तमिस्रं येन स तथा ॥ ५ ॥ जलदेति । जलद-
पटलं घनसमूहः तं वलतः संभजमानस्येन्दोश्चन्द्रस्य विनिन्दकश्चन्दनतिलको ललाटे,
यस्य, वर्तुल इति यावत् । केचिञ्चलदिति पठन्ति तत्र जलदपटलं गच्छत इति व्याख्ये-
यम् । तत्पक्षे वंशे वाद्यमाने मूर्ध्नः कम्पेन ललाटे तिलकं चलदिव दृश्यते । अत्र
ललाटस्य श्यामत्वात्तिलकस्य गौरत्वान्मेघचन्द्राभ्यामुपमानोपमेयभावः ॥ अपि च
पीनौ घनौ यो स्तनौ तन्मण्डलमर्दने निर्दयं हृदयकपाटं यस्य । चलदित्यत्रापि तथैव
॥ ६॥ मणिमयेति । मणिमये मकराकारे मनोहरे ये कुण्डले ताभ्यां मण्डितोऽलं-
कृतो गण्डो यस्य । अपि च उदारं दक्षिणम् । किंच पीते वसने यस्य । किंच अनुगत
 
मयैव सहेति तस्य स्मरणमुचितमेवेति ध्वनितम् । पुनः कीदृशम् । करयोश्चरणयोरुरसि
चयानि मणिमयानि भूषणान्यलंकरणानि तेषां किरणैर्विभिन्नं नाशितं तमिस्रं येन
तम् । एतेन प्रथमाभिसारे स्वकीयालंकारकिरणैरुद्द्योते सति लज्जया परावर्तमानां
मां समानीय तां चेष्टां कृतवान् येन तं क्षणमपि मनो न विस्मरतीति ध्वनितम् ।
'अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' इत्यमरः ॥ ५ ॥ पुनः कीदृशम् । जलदपट-
लेति । जलदपटले मेघसमूहे चलन्संचरन्य इन्दुश्चन्द्रस्तस्य विनिन्दकस्तच्छो भातिशा
चन्दनबिन्दुर्मण्डलाकृति तिलकं यत्र तादृशं ललाटं यस्य तम् । पुनः कीदृशम्
पीनौ मांसलौ पयोधरौ स्तनौ तयोः परिसरस्य पर्यन्तभागस्य मर्दने निर्दयहृदयका
कपाटवद्विस्तीर्ण हृदयं यस्य तादृशम् ॥ ६ ॥ पुनः कीदृशम् । मणिमयेति । मणिमये
मणिखचिते मकरवन्मनोहरे ये कुण्डले ताभ्यां मण्डितौ कपोलौ यस्य तम् । पुनः
कीदृशम् । उदारमौदार्यगुणयुक्तम् । अत्र रहसि मया यथोचितं तत्सर्वं तत्क्षणमिव
पूरितवानिति स कथं च न स्मर्यत इति ध्वनितम् । पुनः कीदृशम् । पीतं वसनं वस्त्रं यस्य तम् ।
औदार्योपपादकं विशेषणमाह - अनुगता आश्रिता ये मुनयो नारदादयः, मनुजा मनुष्या
भीष्मादयः, सुरा इन्द्रादयः, असुराः प्रहादादयस्त एव वराः श्रेष्ठाः परिवारा: परिजना
यस्य तम् । तथा च तैरप्यधिगतः सुमनः फलैः सततं सेव्यत इति तस्यौदार्य ख्यातमेवेति
भावः । 'परिवारः परिजने खड्नकोशे परिच्छदे' इति विश्व: । 'दानमभ्युपपत्तिश्च तथा
च प्रियभाषणम् । स्वजनेऽपि परे वापि तदौदार्यमिति स्मृतम् ॥ इति नायकौदार्य-
१ 'चलदिन्दु' इति पाठः
 
६ गीत●
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri