2022-10-18 04:13:58 by ambuda-bot
This page has not been fully proofread.
४०
गीतगोविन्दकाव्यम्
[ सर्ग: २
।
रासे० ॥ ४ ॥
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम्
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥
विपुलपुलकभुजपल्लववलयितबल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ रासे० ॥ ५ ॥
ण्डकानां मण्डले संघाते वलयाकारेण वेष्टिताः केशा यस्य तथा प्रचुरं घनं
पुरंदरधनुषानुरञ्जितो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वत्सुवेशो दर्शनीयस्तम् ॥ ३ ॥
गोपेति । गोपसमूहस्य नितम्बवतीनां पृथुनितम्बानां मुखचुम्बनेन लम्भितः प्रापितो
लोभो येन । अर्थान्मुखस्य । अथवा गोपाङ्गनानां मुखचुम्बनेन लम्भितो लोभो
येन । अथवा गोपवधूचुम्बने लम्बितो लम्बीकृतो लोभो येनेति पाठान्तरं युक्तम् ।
अपि च बन्धुजीववत् मधुरो मनोहरोऽधरपल्लवो यस्य । अपि च उल्लसिता
स्मितेन शोभा यस्य तम् ॥ ४ ॥ विपुलेति । विपुलपुलकौ पृथुरोमाञ्चौ यौ भुजौ
तौ पल्लवाविव ताभ्यां वलयितं वलयीकृतं बलवयुवतीनां गोपाङ्गनानां सहस्रं
अत्र
दर्शनं भवतीति ध्वनितम् । पुनः कीदृशम् । प्रचुरैर्बहुलै : पुरन्दरधनुर्भिरनुरञ्जितः संवलितो
यो मेदुरः सान्द्रस्निग्धो मुदिरो मेघस्तद्वच्छोभनो वेश आकृतिर्यस्य तादृशम् ।
नानामणिखचितहारकेयूरादीनामिन्द्रधनुःसाम्यम् । श्रीकृष्णस्य मेघसाम्यम् । इयं
चाभूतोपमा ज्ञेया । कुतः । प्रचुरपुरन्दरधनुर्भिरनुरञ्जितमेघस्याप्रसिद्धेः । 'समौ चन्द्रकमेचकौ'
इत्यमरः । 'बर्हिकण्ठसमे वर्णे मेचकं ब्रुवते बुधाः' इति कात्यः । 'शिखण्डस्तु पिच्छब
नपुंसके' इत्यमरः । 'वेल्लितं स्याद्वलयितम्' इति च । 'मुदिरः कामुकोऽम्बुदः' इति विश्वः ।
'वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके' इति च ॥ ३ ॥ ननु एवं चेत्तस्मिन्ननुरागिणि
चेतस्तदा तं किमिति नानुसरसीत्यत आह - गोपकदम्बेति । गोपकदम्बस्याभीरसमूहस्य
या नितम्बवत्यः प्रशस्तनितम्बशालिन्यः स्त्रियस्तासां मुखचुम्बने लम्भितः प्रापितो लोभो
येन तम् । तथा च मदग्रेऽप्यन्यास्वनुरक्तः स इत्येतावदहमसहमाना तं नानुसरामीति
भावः । यद्वा नन्वयं त्वय्यनुरागरहितोऽन्याभिर्गोपीभिः सह क्रीडतीति त्वं तद्गुण-
कीर्तनमपि कमिति करोषीत्यत आह — गोपकदम्बनितम्बवतीभिर्मुखचुम्बने लम्भितः
प्रापितो लोभो यस्य तादृशम् । तथा च तासु सहजस्नेहो नास्ति परंतु बलात्कारेण
ताभिश्चुम्बने लोभः कारितः । सहजस्तु प्रणयो मय्येव तस्येति भावः । पुनः कीदृशम् ।
बन्धुजीवपुष्पवन्मधुरो मनोहरोऽधर एव पलवो यस्य तम् । उल्लसितान्तरीषद्धास्येन शोभा
यस्य तम् । तथा च बन्धूककुन्ददर्शनेनापि तदीयाधरहास्यस्मारकेण स एव स्मर्यंत
इति भावः
। 'रक्तकस्तु बन्धूको बन्धुजीवकः' इत्यमरः । 'सुरसो मधुरः प्रोक्तो
मधुलेशे मनोहरे' इत्यनेकार्थः ॥ ४ ॥ पुनः कीदृशम् । विपुलेति । विपुलः
पुलको रोमाञ्चो यत्र ताभ्यां भुजपलवाभ्यां पलववत्कोमलाभ्यां बाहुभ्यां वलयितं
वेष्टितं बल्लवयुवतीनामामीरपत्नीनां सहस्रं येन तम् । अत्र वलयितमित्यनेना-
वज्ञया तासां वेष्टनमात्रं न तु गाढालिङ्गनं सरहस्यं चुम्बनालिङ्गनादिकं तस्य
-
१ 'मणिमयभू' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri