This page has been fully proofread once and needs a second look.

<bold>गुर्जरीरागेण यतिताले च गीयते ॥ प्र० ॥ ५ ॥</bold>
 
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम्
चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ।
रासे हरिमिह विहितविलासम्
स्मरति मनो मम कृतपरिहासम् ॥ ध्रुवम् ॥ २ ॥
 
चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ रासे० ॥ ३ ॥
 
मेवार्थं विशिनष्टि वर्णयति तालेन । "लघुश्चैको द्रुतद्वयम्" इति ॥ १ ॥<pratika>संचरदिति ।</pratika>
तत्र पूर्वं ध्रुवपदं व्याक्रियते -- <pratika>रासेति ।</pratika> हे सखि, मे मनो हरिं स्मरति । स्मर-
तीति स्मृतेः पूर्वानुभूतार्थविषयत्वाद्दृष्टचरस्य हरेश्चरितं साक्षात्करोति । इह क्रीडा-
वने रासे गोपक्रीडायां विहितो विलासो विभ्रमो येन स तं तथा । कथं यथा
भवति । कृतपरिहासं कृतनर्मकेलि यथा स्यात्तथेति ध्रुवः । अथ पदानि । तत्राद्यं
पदम् -- <pratika>संचरदिति ।</pratika> संचरन्त्या संक्रममाणयाधरसुधया मधुरो ध्वनिर्यत्र तद्यथा
स्यात्तथा मुखरितो मोहनो मोहकारी तन्नामा वंशो येन । अत एव चलितदृग-
ञ्चलं नेत्रप्रान्तं यथा स्यात्तथा चञ्चलो यो मौलिः शेखरः शिरो वा तेन कपोल-
योर्विलोलौ वतंसौ यस्य स तथा । किमुक्तं भवति । शिरः कम्पदोषं विना शेख-
रकुण्डलचालने वादकवैचित्री । अथवा वंशश्रवणाच्चलितहगञ्चला या गोप्यस्तासु
चञ्चलो यो मौलिस्तन कपोलविलोलवतंसम् । अत्राधरसुधापानेन तदाननस्य
चन्द्रादप्यानन्दकत्वं द्योतितम् ॥ २ ॥ <pratika>चन्द्रकेति ।</pratika> चन्द्रकचारुमयूरशिख-

 
इति विश्वः। "ईर्ष्यामाहुः समानेषु मानदानाद्यमर्षणम्" इति ॥१॥ राधा किमुवाचेत्याह --
<pratika>संचरदिति ।</pratika> गीतस्यास्य गुर्जरी रागः । तालस्तु प्रतिमठः गीतार्थस्तु -- मम
मनोऽन्तःकरणं हरिं स्मरति । कीदृशं हरिम् । रासे गोपक्रीडाविशेषे विहितः कृतो विलासो
येन तादृशम् । तथा कृतः परिहासो येन तादृशम् । एतच्च ध्रुवपदम् । कीदृशं हरिम् ।
संचरता प्रतानक्रमेण स्फुरताधरेणौष्ठेन सुधेव मधुरो ध्वनिर्यस्य तादृशो मुखरितो वादितो
मोहनवंशो मोहनकारी वेणुर्येन तादृशम् । तद्वेणुरवेण मोहितं मे मनः कृतापराधमपि तं
स्मरतीति भावः । पुनः कीदृशम् । चलितः कथंचिन्मूर्च्छा प्रति रोषे प्रकटीकृते तत्संमानाय
एतादृशश्चञ्चल: स्वयमेव वेणुद्वारा प्रकटीकृतस्य
घूर्णितो दृगञ्चलोऽपाङ्गो यत्र
स्वरविशेषस्यान्यैश्चाज्ञानात्स्वयमेव परितो दोषाद्दोलायमानो मौलिर्मस्तकं यस्य, अत एव
कपोले विलोलश्चञ्चलो वतंसः कर्णाभरणं यस्य तादृशम् । 'पीयूषममृतं सुधा' इत्यमरः ॥
'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इति च । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च
शेखरे' इति च ॥ २॥ ननु व्यासङ्गादिना विस्मार्यतामित्यत आह - चन्द्र केति ।
चन्द्रकेण विचित्रचिह्नेन चारुणा मनोहराणां शिखण्डकानां मयूरपिच्छानां मण्डलेन
समूहेन वलयिता वेष्टिताः केशा येन तादृशम् । तथा चात्र मयूरादिदर्शनेऽपि तस्यैक