This page has been fully proofread once and needs a second look.

सर्ग: २ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ३९
<bold>गुर्जरीरागेण यतिताले च गीयते ॥ प्र० ॥ ५ ॥
</bold>
 
संचरधरसुधामधुरध्वनिमुखरितमोहनवंशम्

चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ।

रासे हरिमिह विहितविलासम्
 

स्मरति मनो मम कृतपरिहासम् ॥ ध्रुवम् ॥ २ ॥

 
चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।

प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम्
 
॥ रासे० ॥ ३ ॥
 
-
 

 
मेवार्थं विशिनष्टि वर्णयति तालेन । '"लघुश्चैको द्रुतद्वयम्'" इति ॥ १ ॥ <pratika>संचरदिति ।
</pratika>
तत्र पूर्वं ध्रुवपदं व्याक्रियते -- <pratika>रासेति ।</pratika> हे सखि, मे मनो हरिं स्मरति । स्मर-

तीति स्मृतेः पूर्वानुभूतार्थविषयत्वाद्दृष्टचरस्य हरेश्रितं साक्षात्करोति । इह क्रीडा-

ने रासे गोपक्रीडायां विहितो विलासो विभ्रमो येन स तं तथा । कथं यथा

भवति । कृतपरिहासं कृतनर्मकेलि यथा स्यात्तथेति ध्रुवः । अथ पदानि । तत्राद्यं

पदम् - - <pratika>संचरदिति ।</pratika> संचरन्त्या संक्रममाणयाधरसुधया मधुरो ध्वनिर्यत्र तद्यथा

स्यात्तथा मुखरितो मोहनो मोहकारी तन्नामा वंशो येन । अत एव चलितदृग-

ञ्चलं नेत्रप्रान्तं यथा स्यात्तथा चञ्चलो यो मौलिः शेखरः शिरो वा तेन कपोल-

योर्विलोलौ वतंसौ यस्य स तथा । किमुक्तं भवति । शिरः कम्पदोषं विना शेख-

रकुण्डलचालने वादकवैचित्री । अथवा वंशश्रवणाच्चलितहगञ्चला या गोप्यस्तासु

चञ्चलो यो मौलिस्तन कपोलविलोलवतंसम् । अत्राधरसुधापानेन तदाननस्य

चन्द्रादप्यानन्दकत्वं द्योतितम् ॥ २ ॥ <pratika>चन्द्रकेति ।</pratika> चन्द्रकचा रुमयूर शिख-

 

 

 


 
इति विश्वः। '"ईर्ष्यामाहुः समानेषु मानदानाद्यमर्षणम्'" इति ॥१॥ राधा किमुवाचेत्याह
--
<pratika>
संचरदिति ।</pratika> गीतस्यास्य गुर्जरी रागः तालस्तु प्रतिमठः गीतार्थस्तु —मम
-- मम
मनोऽन्तःकरणं हरिं स्मरति । कीदृशं हरिम् । रासे गोपक्रीडाविशेषे विहितः कृतो बिविलासो

येन तादृशम् । तथा कृतः परिहासो येन तादृशम् । एतच्च ध्रुवपदम् । कीदृशं हरिम् ।

संचरता प्रतानक्रमेण स्फुरताधरेणौष्ठेन सुधेव मधुरो ध्वनिर्यस्य तादृशो मुखरितो वादितो

मोहनवंशो मोहनकारी वेणुर्येन तादृशम् । तद्वेणुरवेण मोहितं मे मनः कृतापराधमपि तं

स्मरतीति भावः । पुनः कीदृशम् । चलितः कथंचिन्मूर्च्छा प्रति रोषे प्रकटीकृते तत्संमानाय

एतादृशश्चञ्चल: स्वयमेव वेणुद्वारा प्रकटीकृतस्य

घूर्णितो दृगञ्चलोऽपाङ्गो यत्र

स्वरविशेषस्यान्यैश्चाज्ञानात्स्वयमेव परितो दोषाद्दोलायमानो मौलिर्मस्तकं यस्य, अत एव

कपोले विलोलश्चञ्चलो वतंसः कर्णाभरणं यस्य तादृशम् । 'पीयूषममृतं सुधा' इत्यमरः ॥

'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इति च । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च

शेखरे' इति च ॥ २॥ ननु व्यासङ्गादिना विस्मार्यतामित्यत आह - चन्द्र केति ।

चन्द्रकेण विचित्रचिह्नेन चारुणा मनोहराणां शिखण्डकानां मयूरपिच्छानां मण्डलेन

समूहेन वलयिता वेष्टिताः केशा येन तादृशम् । तथा चात्र मयूरादिदर्शनेऽपि तस्यैक
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
-