2022-11-12 07:14:35 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
<bold>द्वितीयः सर्गः २</bold>
अक्लेशकेशवः ।
विरहति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्ष्यावशेन गताऽन्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-
मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १ ॥
धन्नासीरागेण गीयते ॥
भुवनेशपादकमलं प्रणम्य कुम्भो नृपतिरतिविमलम् ।
जयदेवरचितमातुं युनक्ति युक्तेन धातुना गातुम् ॥
इदानीं हरेरभिलाषेर्ष्यारूपदोलारूढचित्ता राधा सखीमाह । पूर्वसर्गेऽभिलाषचि-
न्तारूपं दशाद्वयं निरूप्य स्मरणलक्षणदशाप्रदर्शनार्थं द्वितीयसर्गारम्भः ॥ <pratika>विहर-
तीति ।</pratika>राधा सखीं रहोऽपि गोप्यमप्युवाच । यद्यपि लताकुञ्जे स्वरहस्यं वक्तुं
नोचितं तथापि स्मरपारवश्यविह्वलतया गोप्यागोप्यं नाज्ञासीत् । क्व सति । साधा-
रणप्रणये सकलगोपिकासु समानस्नेहे हरौ वने वृन्दावने विहरति सति ।
किंभूता राधा । विगलितनिजोत्कर्षादन्यस्त्रीभ्यो निजातिरेकापगमात् । ईर्ष्यावशे-
नासहिष्णुतयान्यतो गता । यत्र स्थिता अन्याभिः क्रीडन्तं न पश्यतीति । अत्रार्थे
पुनर्विशेषमाह । गत्वापि क्वचिदपि कुञ्जे लीना । किंभूते कुजे । झङ्कारपरभ्रमरश्रेण्या
वाचालाग्रभागे । अत एव दीना । अत्रापि तैरधिककामोद्दीपनात् । अत्र "रसयु -
गहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा" इति हरिणी छन्दः । विरहासहिष्णुता-
लक्षणो विप्रलम्भो रसः । रतेरेवात्युद्रेकाद्रसवदलंकारता । वर्णसाम्येनानुप्रासश्च ।
प्रौढा नायिका । अत्र गलितनिजोत्कर्षवशाद्दीनस्य वचनाशक्तैर्यत्सखीं प्रति रहस्यकथ-
नमपिशब्देन द्योत्यते तन्नितरामौचित्यचमत्काराय । यदाह -- "उचितस्थानवि-
न्यस्तैर्निपातैरर्थसंगतिः । उपादेयैर्भवत्येव सचिवैरिव निश्चला ॥" इति श्लोकोक्त-
एतद्वचनैः सख्या प्रतिबोधितायाः समक्षमन्याभिः सह निर्भरं क्रीडन्तं हरिं दृष्ट्वाऽसह-
मानायाः अत एव क्वचित्कुञ्जान्तरगताया राधाया अवस्थान्तरं वर्णयितुमाह -- <pratika>विहरतीति ।</pratika>
राधा सखीम् इति वक्ष्यमाणमुवाचोक्तवती । कीदृशी । ईर्ष्यावशेनान्यतोऽन्यत्र गता ।
ईर्ष्यायां हेतुमाह -- <pratika>विगलितेति ।</pratika> विगलितो गलितो निजः स्वीय उत्कर्षोऽहमेव
हरेः प्रणयिनीत्येवंरूपस्तस्मात् । क्व सति । हरौ कृष्णे वने विहरति सति ।
कीदृशे हरौ । साधारणो राधायामन्यगोपाङ्गनायां च समानः प्रणयः प्रेम यस्य तादृशे ।
अत एव दीना दुःखिता । पुनः कीदृशी । क्वचिदपि लताकुञ्जे लताभिर्वल्लीभिरतिनिबिडे
कुञ्जे लीना निभृतं निलीय स्थिता । कीदृशे कुजे । गुञ्जन्तः शब्दायमाना मधुपा भ्रम-
रास्तेषां या मण्डली पङ्किस्तया मुखरं वाचालं शिखरमग्रभागो यस्य तादृशे । तत्र
कुञ्जपदेनैव लताच्छादितगृहप्राप्तौ लतापदमतिनिबिडत्वसूचनाय । "प्रणयः प्रेम्णि विश्रम्भे"