2022-10-23 09:28:43 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
ड
ऽरीणां दक्षेण सर्गे प्रथमपरिमिते गीतगोविन्दसर्गे ॥
यत्र स्याद्गुर्जरी रागस्तालो झम्पेति भागशः ।
यथाशोभं प्रयोगोऽपि गद्यपद्याञ्चितान्तरः ॥
आभोगान्ते स्वराः पाटाः पुनः पद्यानि कानिचित् ।
सामोददामोदराद्यः प्रबन्धो भ्रमरः पदम् ॥
इति सामोददामोदरभ्रमरपदनामा चतुर्थः प्रबन्धः ॥
इति श्रीमेदपाटसमुद्रसंभवेन रोहिणीरमणेन कुम्भकर्णेन विरचिते गीत-
गोविन्दविवरणे सामोददामोदरनामा प्रथमः सर्गः ॥ १ ॥
इत्यर्थः ।
गर्भे चोत्ताल उत्कटे । श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालं प्लवंगमे
इति श्रीमहामहोपाध्याय
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां प्रथमः सर्गः ॥ १ ॥
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri