2022-10-22 11:37:49 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा-
मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-
व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः पातु वः ॥ १२[^१] ॥
इति श्रीजयदेवकृतौ गीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥ १
सुवृत्तत्वं साधुता च विराजते । काव्यस्य सुजनस्येव यद्यौचित्यवती क्रिया ॥"
इति ॥ ११ ॥ इदानीं सर्गान्ते कविराशिषमाशास्ते -- <pratika>रासोल्लासेति ।</pratika> हरिर्वो
युष्मान्पातु । किंभूतो हरिः । राधया गीतस्तुतिव्याजात् । अमृतमयमुखनिर्गतत्वात्
इदं गीतममृतमेवेति मिषेण व्याहृत्य उत्कटं यथा स्यात्तथा चुम्बितः । इतीति
किम् । साधु युक्तमेतत् यद्गीतममृतकल्पम् । यतस्त्वद्वदनं सुधामयम् । अत्र विकारे
मयट् । अत्रान्यनारीसंनिधौ चुम्बनमयुक्तमिति गीतस्तुतिव्याजोक्तिः । किं कृत्वा ।
निर्भरं गाढं यथा स्यात्तथोरः परिरभ्य । क्व । आभीरवामभ्रुवां गोपाङ्गनानामभ्यर्णं
समीपे । किंभूतानां वामभ्रुवाम् । रासो गोपक्रीडा तस्योल्लासः संहर्षप्रादुर्भावस्तस्य
भरेण विलासवतीनाम् । किंभूतो हरिः । स्मितेनान्यनारीणां मनो हर्तुं शीलं यस्य
स तथा । अथवा अन्यनारीसमीपे आलिङ्गनं लज्जावहमिति तत्परिजिहीर्षया
राधाया हेतुगर्भं विशेषणमाह प्रेमान्धयेति । "कामान्धः किंचिन्न पश्यति" इति
वचनादतिप्रेम्णा व्याकुलयेत्यर्थः । अत्र विप्रलम्भः शृङ्गारः । आशीरप्रस्तुतप्रशंसा-
व्याजोक्त्याक्षेपहेतवोऽलंकाराः । प्रगल्भा नायिकाः । मुग्धो नायकः । अत्र "तरुमिव
कमितारं चुम्बनार्ताधिरोढुं यदभिलषति नारी तच्च वृक्षाधिरूढम् ॥" इति कृत्वा
वृक्षाधिरूढमाश्लेषः । "आभीरजाश्चुम्बनहार्यचित्ताः" इति, "नमितकमिदमाहुर्योषितो
यद्बलेन प्रियमुखमभिवक्त्रं न्यस्य तिष्ठन्त्युदास्याः" इति रतिरहस्यात् नमितकं नाम
चुम्बनविशेषः । शार्दूलविक्रीडितं छन्दः । अत्र राधाया वीरायितेनोत्साहात्मकस्य
वीररसस्याविर्भावात्तदुपयोगिनी आरभटी वृत्तिः । द्वित्रिपदे तु पाञ्चाली रीतिः
अर्धमागधी गीतिश्चति । स्थितलयं गानम् ॥ १२ ॥
यत्सर्गं संविधातुं नृपतिगुणनिधिं सर्गकर्तुर्निसर्गा-
च्छिक्षाभूत्सर्गवर्गः सकलकलितॄतृणां स्वर्गिणामग्रिणां च
किं चेति। पिकानां कोकिलानां कुहूः कुहूरित्येवंरूपाः गिरः शब्दा उन्मीलन्ति प्रकटीभवन्ति ।
कीदृश्यः । कलोत्तालाः कला अव्यक्तगिरो मधुराः, उत्ताला उद्भटाः । कस्मात् । स्निग्धा
ये रसाला आम्रवृक्षास्तेषां ये मौलयोऽग्रभागास्तत्र यानि मुकुलानि तान्यालोक्य वीक्ष्य
यो हृर्षोदय आनन्दाविर्भावस्तस्मात् । अत्र क्वचित् "अद्योत्सर्ग" इति पाठः । तत्राद्य वसन्ते
[^१.] इदं पद्यं रसमञ्जरीव्याख्याकृता न टीकितं वा तट्टीका लेखकादिप्रमादाद्भग्ना वेति
नावगम्यते ।

च्छिक्षाभूत्सर्गवर्गः सकलकलि