2022-10-22 11:18:44 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
नित्यो[^१]त्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमु[^२]कुलान्यालोक्य हर्षोदया-
दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः ॥ ११ ॥
2010
श्रीखण्डशैलानिलो मलयाचलपवनः ईशाचलं हिमाद्रिमनुसरति याति । ईशश्चा-
सावचलश्चति । अथवा ईशायाः पार्वत्याः गुरुरचलः । मध्यमपदलोपाद् टाब्विधि-
नाच् (?) वा ईशोपलक्षिताचल इति । अथवा ईशाचलं कैलासमनु लक्ष्यीकृत्य सरति ।
कया । प्रालेयप्लवनेच्छया हिमावगाहनेच्छया । अत्रोत्प्रेक्षितं हेतुमाह - - <pratika>नित्येति ।</pratika>
नित्यमुत्सङ्गे वसन्तो ये भुजङ्गा एव भुजङ्गकास्तेषां यद्वलनं तस्मात् तत्र वा यः क्लेशः
तस्मादिव । अथ भुजङ्गकाद्यद्वलनं तेन यो जायमानः क्लेशः तस्मादिव । अथवा
कवलनं कवलो दशनं तस्मात् । सर्पदष्टो हि तत्तापोपशान्तये शीतलेच्छुर्भवति । किं चेति
विभावान्तरमाह । पिकानां कोकिलानां कुहूः इति गिर उन्मीलन्ति प्रादुर्भवन्ति ।
किंभूताः । कलोत्तालाः कलाश्च ता उत्ताला उदीर्णाः । कुतः हर्षोदयात् । किं कृत्वा ।
स्निग्धानि यानि रसालमौलिषु मुकुलानि चूतशिरस्सु कुड्मलास्तानालोक्य । अथवा
स्निग्धानि रसालानां मौलिमुकुलानि चूतशिरांसि अशोकानां च मुकुलानीति आलोक्य
हर्षोदयादिति क्रिययोरेककर्तृकत्वात्पूर्वकालता । शार्दूलविक्रीडितं वृत्तम् । अत्र वर्णा-
नुप्रासोपमाहेतवोऽलंकाराः । वैदर्भी रीतिः । अत्र विप्रलम्भाख्यशृङ्गारसूचको रत्याख्यः
स्थायीभावः । अत्र विरहिमनः शरीरकर्तनकुशलानां स्निग्धरसालमौलिमुकुलाना-
मालोकनेन जातहर्षाणां पिकानां गिरां तद्वैरीन्दुविलुण्डाटाककुहूरूपेण यदुन्मीलनलक्षणं
यथा क्रियास्वरूपनिरूपणमकारि तन्नितरामौचित्य कोटि मालम्बते । उक्तं च -'
-'- "सगुणत्वं
भयं तथा ॥ विषादो जडता निद्रावहित्था चापलं मतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे
व्यभिचारिणः ॥'" इति । सात्त्विकभावाः शृङ्गारतिलके – '-- "स्तम्भः स्वेदोऽथ रोमाञ्चः
स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥'" इति । एतेषामवान्तर-
लक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते । अत्र सकलाभिशज्ञस्यापि व्रजसुन्दरीभिः सह मुग्ध-
तामाश्रित्य तदनुसारेण क्रीडतोऽपि हरेर्न दक्षत्वहानिः । तासां तथैवानुरञ्जनात् ।
अत एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरञ्जकत्वं कृष्णस्योक्तमिति भावः ॥ १० ॥
इदानीं राधां शीघ्रं गमयितुं मलयानिला दिदुःसह तामाह — -- <pratika>अद्र्युत्सङ्गेति ।</pratika> श्रीखण्ड-
शैलानिलो मलयपर्वतसंबन्धी वायुरीशाचलं रुद्रस्याचलं हिमालयमनुसरति । कस्मादिव ।
अप्रैद्रेर्मलयस्य उत्सङ्गे कोक्रोडे वसन्तो ये भुजङ्गाः सर्पास्तेषां कवलेना श्लेषेण जनितो यः क्वेलेश:
संतापस्तस्मादिव । तर्हि हिमानिँद्रिं किमिति व्रजतीत्यत आह - - <pratika>प्रालेयेति ।</pratika> प्रालेयस्तुषा-
रस्तस्य प्लवनमवगाहनं तस्येच्छया । अत्र सर्पैः कवलितोद्गीर्णस्य पवनस्य तद्विषसंपर्का-
दधिकं विरहिणां संतापकत्वं ध्वनितम् । न केवलमिदमेव दुःसहं वसन्तेऽपरमपीत्याह ।
[^१ '.] "अद्र्युत्सङ्ग'", '"अद्योत्सङ्ग'" इति वा पाठः । [^२ '.] "मौलिकुसुमानि'" इति पाठ: ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
ठः ।
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमु[^२]कुलान्यालोक्य हर्षोदया-
दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः ॥ ११ ॥
2010
श्रीखण्डशैलानिलो मलयाचलपवनः ईशाचलं हिमाद्रिमनुसरति याति । ईशश्चा-
सावचलश्चति । अथवा ईशायाः पार्वत्याः गुरुरचलः । मध्यमपदलोपाद् टाब्विधि-
नाच् (?) वा ईशोपलक्षिताचल इति । अथवा ईशाचलं कैलासमनु लक्ष्यीकृत्य सरति ।
कया । प्रालेयप्लवनेच्छया हिमावगाहनेच्छया । अत्रोत्प्रेक्षितं हेतुमाह -
नित्यमुत्सङ्गे वसन्तो ये भुजङ्गा एव भुजङ्गकास्तेषां यद्वलनं तस्मात् तत्र वा यः क्लेशः
तस्मादिव । अथ भुजङ्गकाद्यद्वलनं तेन यो जायमानः क्लेशः तस्मादिव । अथवा
कवलनं कवलो दशनं तस्मात् । सर्पदष्टो हि तत्तापोपशान्तये शीतलेच्छुर्भवति । किं चेति
विभावान्तरमाह । पिकानां कोकिलानां कुहूः इति गिर उन्मीलन्ति प्रादुर्भवन्ति ।
किंभूताः । कलोत्तालाः कलाश्च ता उत्ताला उदीर्णाः । कुतः हर्षोदयात् । किं कृत्वा ।
स्निग्धानि यानि रसालमौलिषु मुकुलानि चूतशिरस्सु कुड्मलास्तानालोक्य । अथवा
स्निग्धानि रसालानां मौलिमुकुलानि चूतशिरांसि अशोकानां च मुकुलानीति आलोक्य
हर्षोदयादिति क्रिययोरेककर्तृकत्वात्पूर्वकालता । शार्दूलविक्रीडितं वृत्तम् । अत्र वर्णा-
नुप्रासोपमाहेतवोऽलंकाराः । वैदर्भी रीतिः । अत्र विप्रलम्भाख्यशृङ्गारसूचको रत्याख्यः
स्थायीभावः । अत्र विरहिमनः
मालोकनेन जातहर्षाणां पिकानां गिरां तद्वैरीन्दुविलुण्
यथा क्रियास्वरूपनिरूपणमकारि तन्नितरामौचित्य
-'
भयं तथा ॥ विषादो जडता निद्रावहित्था चापलं मतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे
व्यभिचारिणः ॥
स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥
लक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते । अत्र सकलाभि
तामाश्रित्य तदनुसारेण क्रीडतोऽपि हरेर्न दक्षत्वहानिः । तासां तथैवानुरञ्जनात् ।
अत एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरञ्जकत्वं कृष्णस्योक्तमिति भावः ॥ १० ॥
इदानीं राधां शीघ्रं गमयितुं मलयानिला
शैलानिलो मलयपर्वतसंबन्धी वायुरीशाचलं रुद्रस्याचलं हिमालयमनुसरति । कस्मादिव ।
अ
संतापस्तस्मादिव । तर्हि हिमा
रस्तस्य प्लवनमवगाहनं तस्येच्छया । अत्र सर्पैः कवलितोद्गीर्णस्य पवनस्य तद्विषसंपर्का-
दधिकं विरहिणां संतापकत्वं ध्वनितम् । न केवलमिदमेव दुःसहं वसन्तेऽपरमपीत्याह ।
[^१