This page has not been fully proofread.

सर्गः नित्यो[^१] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
नित्यो
त्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं
 
३५
 

प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।

किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-

दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः ॥ ११ ॥
 

 
2010
 

 
श्रीखण्डशैलानिलो मलयाचलपवनः ईशाचलं हिमाद्रिमनुसरति याति । ईशश्चा-

सावचलश्चति । अथवा ईशायाः पार्वत्याः गुरुरचलः । मध्यमपदलोपाद् टाब्विधि-

नाच् (?) वा ईशोपलक्षिताचल इति । अथवा ईशाचलं कैलासमनु लक्ष्यीकृत्य सरति ।

कया । प्रालेयप्लवनेच्छया हिमावगाहनेच्छया । अत्रोत्प्रेक्षितं हेतुमाह - नित्येति ।

नित्यमुत्सङ्गे वसन्तो ये भुजङ्गा एव भुजङ्गकास्तेषां यद्वलनं तस्मात् तत्र वा यः क्लेशः

तस्मादिव । अथ भुजङ्गकाद्यद्वलनं तेन यो जायमानः क्लेशः तस्मादिव । अथवा

कवलनं कवलो दशनं तस्मात् । सर्पदष्टो हि तत्तापोपशान्तये शीतलेच्छुर्भवति । किं चेति

विभावान्तरमाह । पिकानां कोकिलानां कुहूः इति गिर उन्मीलन्ति प्रादुर्भवन्ति

किंभूताः । कलोत्तालाः कलाश्च ता उत्ताला उदीर्णाः । कुतः हर्षोदयात् । किं कृत्वा ।

स्निग्धानि यानि रसालमौलिषु मुकुलानि चूतशिरस्सु कुमलास्तानालोक्य । अथवा

स्निग्धानि रसालानां मौलिमुकुलानि चूतशिरांसि अशोकानां च मुकुलानीति आलोक्य

हर्षोदयादिति क्रिययोरेककर्तृत्वात्पूर्वकालता । शार्दूलविक्रीडितं वृत्तम् । अत्र वर्णा-

नुप्रासोपमाहेतवोऽलंकाराः । वैदर्भी रीतिः । अत्र विप्रलम्भाख्यशृङ्गारसूचको रत्याख्यः

स्थायीभावः । अत्र विरहिमनः शरीरकर्तनकुशलानां स्निग्धरसालमौलिमुकुलाना-

मालोकनेन जातहर्षाणां पिकानां गिरां तद्वैरीन्दुविलुण्डाककुहूरूपेण यदुन्मीलनलक्षणं

यथा क्रियास्वरूपनिरूपणमकारि तन्नितरामौचित्य कोटि मालम्बते । उक्तं च -'

-'सगुणत्वं
 

 
भयं तथा ॥ विषादो जडता निद्रावहित्था चापलं मतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे

व्यभिचारिणः ॥' इति । सात्त्विकभावाः शृङ्गारतिलके – 'स्तम्भः स्वेदोऽथ रोमाञ्चः

स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यम प्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । एतेषामवान्तर-

लक्षणानि ग्रन्थगौरवभयान्न लिख्यन्ते । अत्र सकलाभिशस्यापि व्रजसुन्दरीभिः सह मुग्ध-

तामाश्रित्य तदनुसारेण क्रीडतोऽपि हरेर्न दक्षत्वहानिः । तासां तथैवानुरञ्जनात्

अत एव विश्वेषामनुरञ्जनेनेत्यनेन विश्वानुरञ्जकत्वं कृष्णस्योक्तमिति भावः ॥ १० ॥

इदानीं राधां शीघ्रं गमयितुं मलयानिला दिदुःसह तामाह — अद्युत्सङ्गेति । श्रीखण्ड-

शैलानिलो मलयपर्वतसंबन्धी वायुरीशाचलं रुद्रस्याचलं हिमालयमनुसरति । कस्मादिव ।

अप्रैर्मलयस्य उत्सङ्गे कोडे वसन्तो ये भुजङ्गाः सर्पास्तेषां कवलेना श्लेषेण जनितो यः क्वेश:

संतापस्तस्मादिव । तर्हि हिमानिँ किमिति व्रजतीत्यत आह - प्रालेयेति । प्रालेयस्तुषा-

रस्तस्य प्लवनमवगाहनं तस्येच्छया । अत्र सर्पैः कवलितोद्गीर्णस्य पवनस्य तद्विषसंपर्का-

दधिकं विरहिणां संतापकत्वं ध्वनितम् । न केवलमिदमेव दुःसहं वसन्तेऽपरमपीत्याह ।
 

 
१ 'अयुत्सङ्ग', 'अद्योत्सङ्ग' इति वा पाठः । २ 'मौलिकुसुमानि' इति पाठ: ।
 

 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri