2022-10-22 08:48:52 by Dhunee_Sarayu
This page has not been fully proofread.
[ सर्ग: १
शृङ्गारः
गीतगोविन्दकाव्यम्
मर्धा
मधौ वसन्ते मुग्धः सुन्दरो हरिः क्रीडति । क इव । मूर्तिमाञ्शृङ्गाररस इव । 'पुरुषः
प्रमदायुक्तः शृङ्गार इति संज्ञितः' । किं कुर्वन् । अनुरञ्जनेनानुरागेण विश्वेषां सर्वेषां
आनन्दं जनयन् हरिः शृङ्गारश्च । पुनश्च किं कुर्वन् । अङ्गैरनङ्गोत्सवमुपनयनुपस्था-
पयन् । किंभूतैरङ्गैः । इन्दीवरपङ्किश्यामलकोमलैर्नीलोत्पलराजिवच्छ्यामलसुकुमारैः ।
पुनः किंभूतः । व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः प्रतिप्रतीकमाश्लिष्टः । अभितः
सर्वतः । कथं । स्वच्छन्दं यथा स्यात्तथा । अथवा यद्यदङ्गं यया यया समासादितं तत्तत्तया
तया समालिङ्गितमिति प्रतिप्रतीकशब्दार्थः । अत्र दीपकमलंकारः । वैदर्भी रीतिः ।
शार्दूलविक्रीडितं छन्दः । शृङ्गारो रसः । वाक्यौचित्यं च । चन्दनचर्चितेत्यत्र उत्क-
ण्ठिता नायिका । तल्लक्षणम् – 'प्रिये कृतव्यलीकेऽपि विरहोत्कण्ठितोन्मनाः ॥ १० ॥
—
वसन्ते मुग्धे मनोहरो हरिः क्रीडति । किं कुर्वन् । विश्वेषां गोपीजनानामनुरञ्जनेनानुरागं
जनयन्नुपस्थापयन्। कीदृशो हरिः । अभित उभयतो बाह्यैरवयवैरन्तश्चेतसा प्रत्यङ्गं अङ्गमङ्गं
प्रति स्वच्छन्दं यथा स्यादेवं व्रजसुन्दरीभिरालिङ्गितो मूर्तिमा शरीरी शृङ्गार इव । शृङ्गार-
स्याशरीरत्वात्क्रीडारसो न संभवतीति मूर्तिमानित्युक्तम् । अत्र शृङ्गाररसस्य श्याम-
त्वात्कृष्णसादृश्यम् । तदुक्तम् – 'इयामो भवति शृङ्गारः सितो हासः प्रकीर्तितः' इति ।
यथा मुग्धो मनोहरः शृङ्गाररसो मधौ वसन्ते क्रीडति सर्वत्र विलसति । किं कुर्वन् ।
यूनोऽनुरञ्जनेन परस्परानुरागजननेन विश्वेषां प्राणिजनानामानन्दं जनयन् । पुनः किं
कुर्वन् । अङ्गैः शृङ्गाररसस्याङ्गभूतैः कटाक्षादिभिरनुभावै रोमाञ्चादिभिश्च सात्त्विक-
भावैः शङ्कासूयादिभिः संचारिभावैश्चानङ्गोत्सवमुपनयन् । केवलमेतैः पूर्वभावैरपीत्याह—
इन्दीवरेति । इन्दीवर श्रेणिभिः कमलपतिभिः श्यामैर्गाढान्धकारनीलनिचोलवनमाला-
बनादिभिः कोमलैर्मृदुशय्यादिभिः । अत्र हेतुगर्भविशेषण माह – स्वच्छन्द मिति । स्वच्छन्द्रं
यथा स्यादेवं व्रजन् गच्छन्सुन्दरीभिरङ्गमङ्गं प्रति आलिङ्गितः आश्रितः । शृङ्गाररसस्याङ्गिनो
विभावादीनां मध्ये कयाचित्ताम्बूलस्रक्चन्दनायुपनयनविभावरूपं कयाचित्सुस्मितकटाक्षा-
रोमाञ्चितत्वादिसात्त्विक
द्यनुभावरूपं कयाचिच्छङ्कास्यादि
सहचारिरूपं कयाचिच्च
भावरूपं शृङ्गाररसस्याङ्गमाश्रितमिति भावः
'विभावैरनुभावैश्च भावः संचारिसात्त्विकैः । जनितो बोधितः स्फीतो वृद्धः शृङ्गार इष्यते ॥ १
'भावयन्ति विशेषेण ये रसान्वै
इति विभावसामान्यलक्षणात् । रसरत्नप्रदीपिकायाम्-
मनोहरान् । ते विभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः ॥' इति । तत्र शृङ्गारविभावा भर-
तेनोक्ताः—'ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गार-
रसः समुद्भवति ॥' अनुभावसामान्यलक्षणं यथा—'व्याक्रियन्ते यथा सम्यग्लोकानुभवगो-
चराः। तेऽनुभावास्तु कथ्यन्ते नाट्यशास्त्रविशारदैः ॥ तत्र शृङ्गारानुभावः - नयनवदनप्र-
सादैः स्मितमधुरवचोधृतिप्रमोदैश्च। मधुरैः स्वाङ्गविकारस्तस्याभिनयः प्रयोक्तव्यः॥' व्यभिचा-
रिसामान्यलक्षणं दशरूपके– 'विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः'। शृङ्गारतिलके-
'शङ्कासूया तथा ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः । औत्सुक्यं विस्मयो हर्षो ब्रीडोन्माद
। विभावादीनामङ्गत्वं प्रति भरतः -
-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri